________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
एवमन्यदपि शास्त्राद्यनुसारेण यथोचितं चिन्तनीयम् । तथा चाहक्षीरं भुक्त्वा रतं कृत्वा स्नात्वाऽऽहत्य गृहाङ्गनाम् । वान्त्वा निष्ठीव्य चाक्रोशं, श्रुत्वा च प्रचलेन्न हि ॥ कारयित्वा नरः क्षौरमश्रुमोक्षं विधाय च । गच्छेद् ग्रामान्तरे नैव, शकुनाऽपाटवेन च ॥ कार्याय चलित: स्थानाद् वहन्नाडिपदं पुरः । कुर्वन् वाञ्छितसिद्धीनां भाजनं जायते नरः ॥ रोगिवृद्धद्विजान्धानां, धेनुपूज्यक्षमाभुजाम् । गर्भिणीभारभुग्नानां, दत्वा मार्ग व्रजेद्बुधः ॥ धान्यं पक्वमपक्वं वा, पूजार्ह मन्त्रमण्डलम् । न त्यक्तोद्वर्तनं लवयं, स्नानाभ्भोऽसृक्शवानि च ॥ निष्ठ्यूतश्लेष्मविण्मूत्रज्वलद्वह्निभुजङ्गमान् । मनुष्यमायुधं धीमान्, कदाऽप्युल्लङ्घयेन च ॥ नदीतीरे गवां गोष्ठे, क्षीरवृक्षे जलाश्रये । आरामेषु च कूपादाविष्टबन्धुं विसर्जयेत् ॥ क्षेमार्थी वृक्षमूलं न, निशीथिन्यां समाश्रयेत् । नासमाप्ते नरो दूर, गच्छेदुत्सवसूतके ॥ नासहायो न चाज्ञातैर्नैव दासैः समं तथा । नातिमध्यन्दिने नार्द्धरात्रे मार्गे बुधो व्रजेत् ॥ क्रूरैरारक्षकैः कर्णेजपैः कारुजनैस्तथा । कुमित्रैश्च समं गोष्टी, चर्या चाकालिकी त्यजेत् ॥ महिषाणां खराणाञ्च, धेनूनां चाधिरोहणम् । खेदस्पृशाऽपि नो कार्यमिच्छता श्रियमात्मनः ॥ गजात् करसहस्रेण, शकटात्पञ्चभिः करैः । श्रृङ्गिणोऽश्वाच्च गन्तव्यं, दूरेण दशभिः करैः ॥
२६८