________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
कश्चिन्नायकोऽप्यनुसरणीयः, अन्यथा पदे पदे पराभवादिभावात् । उक्तश्च
सुहृदामुपकारकारणाद् द्विषतां चाप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥
मन्त्रिवस्तुपालसाधुपेथडाद्यैरपि नृपाश्रयेणैव प्रासादाद्यनेकतत्तत्पुण्यकृत्यानि चक्रिरे । तथा द्यूतधातुवादादि दूरतः परिवर्जयेत् । यतः
जूअं धाउव्वाओ, अंजणसिद्धीरसायणे तण्हा । जक्खिणिविवरपवेसो, दइवे रुढे मई होइ ॥ यथा तथा शपथादिकं च न विदध्याद्, विशिष्य च देवगुर्वादिविषयम् । तदभिहितंअलिएणवि सच्चेणवि, चेइअसम्मं करेइ जो मूढो । सो वमइ बोहिबीअं, अणंतसंसारिओ होइ । नापि परप्रतिभूत्वादिसङ्कटे प्रविशेत् । यत्कासिक:अनीश्वरस्य द्वे भार्ये, पथि क्षेत्रं द्विधा कृषिः । प्रातिभाव्यं च साक्ष्यञ्च, पञ्चाऽनाः स्वयं कृताः ॥
तथा मुख्यवृत्त्या निवासग्रामे एव वाणिज्यादि कार्यम् । तथा सति कुटुम्बावियोगगृहकार्यधर्मकार्याद्यसीदनादयो गुणाः । तथा निर्वाहाभावे निवासदेशान्तर्व्यवहरेद्, एवमपि शीघ्रं शीघ्रं निजस्थानाऽऽगमनसम्भवादिना प्रायः पूर्वोक्ता गुणाः । को नाम हि नाम पामरोऽपि निजस्थाने निर्वाहसम्भवे देशान्तरक्लेशमाश्रयेत् । उक्तमपि
२६६
-