________________
प्रथमः
प्रकाशः
२६५
भवद्भिर्ममार्ण्यम्, अहं च न मार्यः । ततस्तैर्वैदेशिको मुग्धोऽयमिति मत्वाऽरण्यमार्जारं कर्बुरं साक्षीकृत्य सर्वस्वं लात्वा मुक्तः । स परम्परया तत्स्थानाद्यवगत्य स्वग्रामं गतः । कियति काले तद्वासग्रामसत्काः सतस्कराः केऽपि बहु वस्तु लात्वा तत्रागताः । प्रकरणम् | तेन स्वद्रव्यमार्गणे मिथः कलहे न्यायकरादिभिः साक्षी कोऽ प्यस्ति ? इति पृष्टे वणिजा कृष्णमार्जारमेकं सउडिमध्ये क्षित्वोक्तं, 'एष साक्षी' तस्करैरुक्तं विलोक्यते । भोः कीदृश: साक्षी ? ततस्तेन स दर्शितः तैरूक्तं, एष स न, कृष्णत्वात्, स तु
| कर्बुरोऽभूत् इति स्वमुखेनैव माननान्यायकरादिबलेन सर्वं स्वद्रव्यं पश्चाद् गृहीतं तेनेति साक्षिकरणे कथानकम् ।
तस्मात्स्थापनिका गुप्तवृत्त्या न मोच्या न ग्राह्या वा, किन्तु कियत्स्वजनसमक्षमेव मोच्या ग्राह्या च । न च धनिकानुमति विना सा चालयितुमपि युज्यते, किं पुनर्वाणिज्यादौ व्यापारयितुम् । जातु न्यासकृदन्यत्र मृतस्तदा तत्सुतादेः सार्पणीया । तत्सुताद्यभावे तु सर्वसमक्षं धर्मस्थाने व्यययितव्याः ।
11111
नाप्युद्धारनिक्षेपादि-समग्राऽऽयव्ययटिप्पनादौ स्वल्पमप्यालस्यं कुर्यात् । यत उक्तं
ग्रन्थिबन्धे परीक्षायां, गणने गोपने व्यये । लेख्यके च कृतालस्यो, नरः शीघ्रं विनश्यति ॥
भ्रान्तिबहुलो हि जन्तुः, टिप्पनादि विना भ्रान्तौ मुधा कर्मबन्धादिदोषोऽपि । योगक्षेमादिसिद्ध्यर्थं च रविरिवेन्दुना राजादिः
१. छलेन इति को० ह० प्र० पाठः ।
AAAAAAAAAA
श्राद्धविधि