________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
न विश्वसेदविश्वस्ते, विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं, मूलादपि निकृन्तति ॥ गुप्तमुक्तस्थापनिकया च को वा सुहृदपि न लोलुभ्यते ? भण्यतेऽपिनिक्षेपे पतिते हर्ये, श्रेष्ठी स्नौति स्वदेवताम् । यदीशो म्रियतामाशु, तुभ्यं दास्यामि याचितम् ॥ अस्माभिरप्युक्तंअत्थो नूणमणत्थो, अग्गीव परं गिहीण तेण विणा । कहमवि न हु निव्वाहो, ता तं जुत्तीइ रक्खिज्जा ॥
अत्र श्रेष्ठिधनेश्वरसम्बन्धः । यथा स स्वगृहसारमेकीकृत्य कोटिकोटि स्वर्णमूल्यान्यष्टौ रत्नानि स्वप्रियापुत्रादिभ्योऽपि प्रच्छन्नं | मित्रहस्ते न्यासीकृत्य धनार्जनार्थं विदेशे गतो, बहुकालं स्थितो, दुर्दैवादाकस्मिकमान्येनाऽन्त्यावस्थां प्राप्तः । यतः
अन्नह परिचिंतिज्जइ, सहरिसकुन्दुज्जलेण हिअएण । परिणमइ तं तु अन्नह, कज्जारंभो विहिवसेणं ॥
तदा चासन्नसुजनैर्द्रव्यादिस्वरूपं पृष्टः प्राह, विदेशार्जितं मद्धनं भूयस्तरमपीतस्ततः स्थितं पुत्रादिभिर्दुर्ग्रह, परं मित्रहस्तन्यस्तं रत्नाष्टकं प्रियापुत्रादीनां दाप्यमित्युक्त्वा स मृतः । तैस्तत्स्वरूपे ज्ञापिते पुत्रादिभिर्विनयस्नेहबहुमानदोदूया[दायाद]भयदर्शनाद्यनेकप्रकारैर्मार्गणेऽपि लुब्धेन मित्रेण तन्न मानितं नार्पितञ्च । व्यवहारकरणे साक्षिणो लिखिताद्यभिज्ञानस्य चाभावाद् भूपत्यमात्यादिभिरपि दापयितुं न शक्तम् । यस्य तस्यापि साक्षिणः करणे चौरादिगृहीतमपि जातु पश्चाद्वलते यथा बहुवित्तवणिजा | धूर्तेन विदेशे मार्गे तस्करधाटीमिलने जोत्कारकरणे तैर्द्रव्यं मार्गितम् । तेनोक्तं, साक्षिणं कृत्वा सर्व गृह्णन्तु । पुनरवसरे
२६४