SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधि प्रकाशः प्रकरणम् नहि लघुसाध्यानि कार्याणि महद्भिः समुदितैरपि साधयितुं शक्यानि । सूचीकार्य हि सूच्यैव सिद्ध्यति न तु खड्गादिभिः, तृणकार्यं तृणेनैव न तु गजादिभिः । तदवादिष्म तृणकणलवणानलकज्जलगोमयमृदश्मभस्मायः । सूचीचूर्णौषधकुञ्चिकादि चानन्यसमकार्यम् ॥ मुखदाक्षिण्यादि तु दुर्जनादिभिरपि न जह्यात् । यतःसद्भावेन हरेन् मित्रं, सन्मानेन च बान्धवान् । स्त्रीभृत्यान् प्रेमदानाभ्यां, दाक्षिण्येनेतरं जनम् ॥ क्वचिच्च स्वकार्यसिद्ध्यै खलानपि पुरस्कुर्यात् । यदभ्यधिष्मखलान् क्वापि पुस्कृत्य, स्वकृत्यं साधयेत् बुधः । रसभुक् क्लेशरसिकान्, रसना दशनानिव ॥ प्रायः कण्टकसण्टकं, विना निर्वाह एव न । क्षेत्रग्रामगृहाराममुख्यरक्षा हि तद्वशा ॥ प्रीतिपदे च सर्वथाऽर्थसम्बन्धादि वर्जयेत् । यतःकुर्यात्तत्रार्थसम्बन्धमिच्छेद्यत्र न सौहृदम् । यदृच्छया न तिष्ठेच्च, प्रतिष्ठाभ्रंशभीरुकः ॥ सोमनीतावपि-अर्थसम्बन्धः सहवासश्च नो अकलहः । न च साक्षिणं विना मित्रगृहेऽपि स्थापनिकास्थापनं, मित्रादिहस्ते २६३न स्वद्रव्यप्रेषणाद्यपि युक्तम्, अविश्वासस्यार्थमूलत्वाद्विश्वासस्य चानर्थमूलत्वात् । यदाह
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy