________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
परीक्षार्थं सुरत्राणेन तव कियत्सङ्ख्यं धनमस्तीति ? पृष्टो लेख्यकं विलोक्य विज्ञपयिष्यामित्युक्त्वा सर्व लेख्यकं सम्यक् कृत्वा
राज्ञोऽग्रे चतुरशीतिटङ्कलक्षा (सहस्रा) मद्गृहे सम्भविनोऽनुमानेनेत्यूचे । मया स्तोकं श्रुतमनेन बहूक्तं इति सत्योक्तिहृष्टो नृपस्तं 4 कोशाध्यक्ष चक्रे । तथा स्तम्भतीर्थे विषमेऽपि सत्यवादी सौवर्णिकभीमस्तपाश्रीजगच्चन्द्रसूरिभक्तः श्रीमल्लिचैत्यान्तः शस्त्रीकरैर्बाहुजैर्बन्दीकृतः । तत्सुतैः पितृमोचनार्थं चतुःसहस्रीकूटटङ्कानयने बाहुजैः परीक्षाकारणे यथास्थितोक्त्या तुष्टैर्मुक्तः ।
विषमे साहाय्यार्थं च समानधर्मधनप्रतिष्ठादिगुणं सुबुद्धिमन्नि(न्तं निर्लोभं च मित्रमेकं कुर्यात् । यदुक्तं रघुकाव्येहीनान्यनुपकर्तृणि, विवृद्धानि विकुर्वते । राज्ञा मध्यमशक्तीनि, मित्राणि स्थापितान्यतः ॥ अन्यत्रापितत्र तिष्ठति न भ्राता, न पिताऽन्योऽपि वा जनः । पुंसामापत्प्रतीकारं, सन्मित्रं यत्र तिष्ठति ॥ ईश्वरेण समं प्रीतिर्न मे लक्ष्मण ! रोचते । गते च गौरवं नास्ति, आगते च धनक्षयः ॥ इति युक्तोक्तिसद्भावेऽपि यदि महता सह कथमपि प्रीतिः स्यात्तदा दुःसाधकार्यसिद्ध्यादयोऽनेके गुणाः । यतःआपण पइं प्रभु होइ, इकि प्रभु किज्जइ हत्थि । कज्जकरे वा माणुसह अवरउ मग्ग न अस्थि ॥ लघुरपि च मित्रीकृतो महतोऽप्यवसरे महते गुणाय स्यात् । उक्तञ्च पञ्चाख्यानेकर्त्तव्यान्येव मित्राणि, सबलान्यबलान्यपि । हस्तियूथं वने बद्धं, मूषकेण विमोचितम् ॥
२६२