________________
प्रथमः
प्रकाशः
२६१
यतः - पापेनैवार्थरागान्धः फलमाप्नोति यत् क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति ॥
अतः स्वामिद्रोहहेतुं शुल्कभङ्गाद्यप्यत्राऽमुत्राऽप्यनर्थकृत्सर्वथा परिहरेत् । यत्र च स्वल्पोऽपि परोपतापस्तं व्यवहारं गृहाट्टकारणग्रहणस्थित्यादि च सर्वं वर्जयेत् । न हि परनिःश्वासैः समृद्धिसुखादिवृद्धिः । यतः
शाठ्येन मित्रं कपटेन धर्मं, परोपतापेन समृद्धिभावम् । सुखेन विद्यां परूषेण नारीं, वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥ यथा च जनानुरागः स्यात्तथैव यतितव्यम् । यतः -
जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते, जनानुरागप्रभवा हि संपदः ।। न च धनहानिवृद्धिसङ्ग्रहादि गुह्यं परेभ्यः प्रकाशयेत् ।
यतः–स्वकीयं दारमाहारं, सुकृतं द्रविणं गुणम् । दुष्कर्म मर्म मन्त्रञ्च परेषां न प्रकाशयेत् ॥
नापि तत्स्वरूपं केनापि पृष्टः कूटं वदेत्, किन्तु किमनेन प्रश्नेनेत्यादिभाषासमित्या प्रत्युत्तरयेत् । नृपगुर्वादिप्रश्ने तु यथास्थितमेव वाच्यम् ।
यतः - सत्यं मित्रैः प्रियं स्त्रीभिरलीकं मधुरं द्विषा । अनुकूलं च सत्यञ्च वक्तव्यं स्वामिना सह ॥
सत्यवादो हि पुंसः परा काष्टा, तत एव विश्वासाद्युत्पत्तेः । श्रूयते हि ढिल्ल्यां साधुमहणसिंहः सत्यवादीति ख्यातिं श्रुत्वा
श्राद्धविधि
प्रकरणम्