________________
प्रथमः
प्रकाशः
२५९
स प्राह- देवगुर्वोः प्रसादेन, जिह्वाग्रे मे सरस्वती । तेनाहं नृप ! जानामि, भानुमतीतिलकं( तिलं) यथा ॥ ततो गुरुराजानौ मिलितौ हृष्टौ । इति विश्वस्तवञ्चने दृष्टान्तः ।
इह पापं द्विधा, गोप्यं स्फुटं च । गोप्यमपि द्विधा, लघु महच्च । लघु कूटतुलामानादि, महद्विश्वासघातादि । स्फुटमपि द्विधा, कुलाचारेण निर्लज्जत्वादिना च । कुलाचारेण गृहिणामारम्भादि म्लेच्छानां हिंसादि च । निर्लज्जत्वादिना तु यतिवेषस्य | हिंसादि । तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि प्रवचनोड्डाहादिहेतुत्वात् । कुलाचारेण पुनः स्फुटे स्तोकः कर्मबन्धो गोप्ये तु तीव्रतरोऽसत्यमयत्वात् । असत्यं च मनोवाक्कायैस्त्रिविधमपि महत्तमं पातकं, तद्वद्भिरेव गोप्यपापकरणात् । न ह्यसत्यत्यागी गोप्यपापे क्वापि प्रवर्त्तते । असत्यप्रवृत्तेश्च निःशूकता स्यात् । निःशूकतायां च स्वामिमित्रविश्वस्तद्रोहादीन्यपि महापातकानि कुर्यात्, तत एवोक्तं योगशास्त्रान्तरश्लोकेषु -
एकत्राऽसत्यजं पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥ २.६४-१०
एवं चासत्यमयगोप्यपापरूपस्य परवञ्चनस्य वर्जने सर्वशक्त्या यतनीयम् । न्याय एव हि परमार्थतोऽर्थोपार्जनोपायोपनिषद् । दृश्यते हि सम्प्रत्यपि न्यायानुसारिणां स्वल्पस्वल्पार्थोपार्जनेऽपि धर्मस्थानादौ प्रत्यहं तद्व्ययेऽपि च कूपादीनामिवाक्षयद्रव्य| त्वादि । परेषां तु पापपराणां बहुबहुद्रव्यलाभेऽपि तादृग्व्ययाभावेऽपि च मरुसरोवरादीनामिव द्रागेव क्षीणद्रव्यत्वादि । आह च
श्राद्धविधिप्रकरणम्