________________
प्रथमः
प्रकाशः
२५८
7777
| जलं पीत्वा व्याघ्रभिया वृक्षे व्यन्तराधिष्ठितवानरेण स्वोत्सङ्गे पूर्वं शायितः । पश्चात्तदुत्सङ्गे कपिः सुप्तः क्षुधार्त्तव्याघ्रवचसा तेन मुक्तो व्याघ्रमुखे पतितो, हसिते व्याघ्रे मुखान्निर्गतो रुदन् व्याघ्रपृष्टः प्राहः
निजजातिं परित्यज्य, परजातिषु ये रताः । तानहं रोदिमि व्याघ्र ! कथं ते भाविनो जडाः ॥
कुमारो लज्जित:, तेन ग्रहिलीकृतः । सर्वत्र विसेमिरा इत्येव वदन् अश्वागमनाज्ज्ञात्वा राज्ञा संशोध्य गृहे आनीतः । कथमपि गुणो न, तदा शारदानन्दनः स्मृतः । ततो राज्यार्द्धदानपटहे मन्त्रिणोक्तं मत्पुत्री किञ्चिद्वेत्ति । राजा सुपुत्रो मन्त्रिगृहे प्राप्तस्ततो जवनिकान्तरितेन शारदानन्दनेनोक्तं
विश्वासप्रतिपन्नानां, वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तानां हन्तुं किन्नाम पौरुषम् ॥ इति श्रुत्वाद्याक्षरं मुक्तम्सेतुं गत्वा समुद्रस्य, गङ्गासागरसङ्गमे । ब्रह्महा मुच्यते पापैर्मित्रद्रोही न मुच्यते ॥ द्वितीयं मुक्तम् ।
मित्रद्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः । चत्वारो नरकं यान्ति, यावच्चन्द्रदिवाकरौ ।। तृतीयं मुक्तम् । राजंस्त्वं राजपुत्रस्य, कल्याणं यदि वाञ्छसि । देहि दानं सुपात्रेषु, गृही दानेन शुद्ध्यति ॥ तुर्यं मुक्तम् । कुमारः सुस्थो जातो व्याघ्रादिवृत्तान्तमूचे । राजा
ग्रामे वससि हे बाले ! वनस्थं चरितं खलु । कपिव्याघ्रमनुष्याणां कथं जानासि ? पुत्रके ! ॥
श्राद्धविधि
प्रकरणम्