________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
दैवात्तज्जातमनुमोदेत, मुधा मनोमालिन्याद्यापत्तेः । यथा द्वौ सुहृदौ घृतचर्माऽऽदित्सया यान्तौ वृद्धया रन्धन्या तादृग् मनो ज्ञात्वा | घृतार्थी गृहेऽन्तश्चर्मार्थी तु बहि जितौ । वलने व्यत्ययः कृतः ताभ्यां प्रश्ने मनःशुद्धिमालिन्ये हेतू उक्तौ । तदाहुः
उचिअं मुत्तूण कलं, दव्वाइकमागयं च उक्चरिसं । निवडिअमवि जाणतो, परस्स संतं न गिहिज्जा ॥
अस्या व्याख्या-उचिकला शतं प्रति चतुष्कपञ्चकवृद्ध्यादिरूपा । 'व्याजे स्याद् द्विगुणं वित्तम्' इत्युक्तेः द्विगुणद्रव्यत्रिगुणधान्यादिरूपा वा तां, तथा द्रव्यं गणिमधरिमादि, आदिशब्दात्तत्तद्गतानेकभेदग्रहः, तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेनागतः सम्पन्नो य उत्कर्षोऽर्थवृद्धिरूपः, तं मुक्त्वा शेषं न गृह्णीयात् । कोऽर्थः ? यदि कथञ्चित् पूगफलादिद्रव्याणां क्षयाद् द्विगुणादिलाभ: स्यात्तदा तमदुष्टाशयतया गृह्णाति । न त्वेवं चिन्तयेत् सुन्दरं जातं यत् पूगफलादीनां क्षयोऽभूदिति । तथा निपतितमपि परसक्तं जानन्न गृह्णीयात् । कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एव ग्राह्य इत्युक्तमाद्यपञ्चाशकवृत्तौ । तथा कूटतूलामान-न्यूनाधिकवाणिज्य-रसमेल-वस्तूमेलानुचितमूल्य-वृद्ध्यनुचितकलान्तरग्रहण-लञ्चाप्रदानग्रहण-कूटकरकर्षण-कूटघृष्टनाणकाद्यर्पण-परकीयक्रयविक्रयभञ्जन-परकीयग्राहकव्युद् ग्राहन-वर्णिकान्तरदर्शन-सान्धकारस्थानवस्त्रादिवाणिज्य-मषीभेदादिभिः सर्वथा परवञ्चनं वय॑म् । यतः
विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ॥ न चैवं निस्वानां निर्वाहस्यैव दौष्कर्यम् । निर्वाहो हि स्वकर्मणैव स्यात्, व्यवहारशुद्धौ तु बहुग्राहकागमनादिना विशिष्य ।
२५५ |