________________
प्रथमः
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
परेव निवर्तेत, विवादः सोदरेष्वपि । विरलात्कङ्कतः कुर्यात्, अन्योऽन्यं गूढमूर्द्धजान् ॥
श्राद्धविधितैरप्यपक्षपातेन मध्यस्थतयैव न्यायः कार्यः । सर्वं सम्यक् परीक्ष्यं स्वजनसार्मिकादिकार्ये, न तु सर्वत्र । यतो 4 प्रक निर्लोभतयैव सम्यक् न्यायकरणेऽपि यथा विवादभङ्गमहत्त्वादिर्गुणस्तथा दोषोऽपि महान् । विवादापनोदाय कस्याप्यसदपि देयं क्रियते, अन्यस्य च सदापि भज्यते सम्यगपरिज्ञानादिना ।
श्रूयते कोऽपि महद्धिः प्रसिद्धश्रेष्ठी महत्त्वबहुमानार्थी विज्ञविधवमान्यपुत्र्या निवार्यमाणोऽपि सर्वत्र न्यायकरणार्थं व्रजति । अन्यदा पुत्र्या पितुर्बोधाय कूटं झटकं मण्डितम् । “प्राग् न्यासीकृते स्वर्णसहस्रे मदीये दत्तेऽहं भोक्ष्य" इत्युक्त्वा लङ्घयन्ती कथमपि न पर्यवस्यति । तातपादा वृद्धा अपि मद्धने लब्धा इत्यादि यत्तद्वदति च । ततो हीणेन पित्रा न्यायकरा आकारिताः, तैर्विमृश्य स्वर्णसहस्रं श्रेष्ठीसकाशात्तस्यै दापितं, पुत्रीत्वाद् विशिष्य बालविधवत्वादिना च । ततः 'श्रेष्ठी कथं मुधैव धनमनया गृहीतं ? जनेऽपवादादि च दुःसहं जातम्' इति खिन्नः । क्षणान्तरे पुत्र्या सम्यगुक्त्या स्वर्णं पश्चादर्पितम् । ततः श्रेष्ठी हृष्टः प्रबुद्धश्च । प्रायो न्यायकरत्वं तत्याज । तस्मान्यायकरैरपि न्यायो यत्र तत्र यथा तथा न कार्यः । इति न्यायकरज्ञातम् ।
तथा परमत्सरं क्वापि न कुर्यात् । कर्मायत्ता हि भूतयः, किं मुधा मत्सरेण भवद्वयेऽपि दुःखाकरेण ? । आचक्ष्महि च
यादृशं चिन्त्यतेऽन्यस्य तादृशं स्वयमाप्यते । इति जानन् कथं कुर्यात् परवृद्धिषु मत्सरम् ? ॥ ___तथा धान्यौषधवस्त्रादिवस्तुविक्रयार्त्तावपि दुर्भिक्षव्याधिवृद्धिवस्त्रादिवस्तुक्षयादि जगदुःखकृत् सर्वथा नाभिलषेत्, नापि
२५४