________________
प्रथमः
प्रकाशः
२५३
********
होममन्त्रबलं विप्रे, नीतिशास्त्रबलं नृपे । राजा बलमनाथानां वणिक्पुत्रे क्षमा बलम् ॥
अर्थस्य मूलं प्रियवाक् क्षमा च, कामस्य वित्तं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वार्थनिवृत्तिरेव ॥ दन्तकलहस्तु सर्वत्र सर्वथा परिहार्यो, यदुक्तं श्रीदारिघ्रसंवादे
गुरवो यत्र पूज्यन्ते, वित्तं यत्र नयार्जितम् । अदन्तकलहो यत्र तत्र शक्र वसाम्यहम् ॥
द्यूतपोषी निजद्वेषी धातुवादी सदालसः । आयव्ययस्यानालोची तत्र तिष्ठाम्यहं सदा ॥
लभ्यमार्गणाद्यप्यकठिनानिन्दितवृत्त्यैव युक्तम्, अन्यथाऽधर्मणदाक्षिण्यलज्जादिलोपेन धनधर्मप्रतिष्ठाहान्याद्यापत्तेः । अतः | स्वयं लङ्घनेऽपि परलङ्घनादि वर्ज्यम् । स्वयं मुक्त्वा परलङ्घनं तु सर्वथाऽनर्हम् । भोजनाद्यन्तरायस्य ढण्ढणकुमारादिवद्भृशं दुस्सहत्वात् । यावच्च कार्यं साम्ना सिद्ध्यति न तावदसाम्ना, विशिष्य वणिगादीनाम् । वदन्त्यपि -
यद्यप्युपायाश्चत्वारः, प्रथिताः साध्यसाधने । सञ्ज्ञामात्रं फलं तेषां सिद्धिः साम्नि प्रतिष्ठिता ॥
मार्दवैनैव वश्याः स्युर्येऽपि तीक्ष्णाः सुनिष्ठुराः । जिह्वामुपासते पश्य दन्ताः कर्मकरा इव ॥ लभ्यदेयादिसम्बन्धे भ्रान्तिविस्मृत्यादिवैमत्योत्पत्तावपि मिथः सर्वथा विवादं न कुर्यात्, किन्तु न्यायकरचतुर-चतुष्पञ्च आप्तप्रतिष्ठाप्राप्तपुरुषा यथा कथयन्ति तथा मान्यम्, अन्यथा विवादभङ्गाभावात् । यतः
AAAAAAAAAAA
श्राद्धविधिप्रकरणम्