________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
शीघ्रं युष्मदीयं देयं दीयते ।" ततस्तैः स्वद्रव्येण वाणिज्यमकार्यत । बहुधनार्जने तैः स्वलभ्यमार्गणे तेन साक्षिपूर्वं सम्यक्स्वरूपं | प्रारूपि । एवं तदाधारेण स महद्धिर्जज्ञे ।
निर्दयत्वमहङ्कारस्तृष्णा कर्कशभाषणम् । नीचपात्रप्रियत्वं च पञ्च श्रीसहचारिणः ॥ इत्युक्तिसत्प्रकृत्यपेक्षा । तेन भूरिद्रव्यलाभेऽपि न गर्वादि कुर्वीत । यतःविपदि न दीनं संपदि न गवितं सव्यथं परव्यसने । हृष्यति चात्मव्यसने येषां चेतो नमस्तेभ्यः ॥ जं जं खमइ समत्थो, धणवंतो जं न गव्विओ होइ । जं च सविज्जो नमिओ, तिहिं तेहिं अलंकिआ पुहवी ॥ न च केनापि सह स्वल्पमपि कलहायेत, विशिष्य च महद्भिः । यतःवर्जयेत् कासवांश्चौर्य, निद्रावान् चर्मचोरिकाम् । रोगवान् रसनालौल्यं, धनवानन्यतः कलिम् ॥ अत्थवइणा निवइणा, पक्खवया बलवया पयंडेण । गुरुणा नीएण तवस्सिणा य सह वज्जए वायं ॥ जातु महता सहार्थादिसम्बन्धः स्यात्तदा प्रणिपातादिनैव स्वकार्यसिद्धिर्न तु बलकलहादिना । पञ्चाख्यानेऽप्याख्यातंउत्तम प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन स्वतुल्यं तु पराक्रमैः ॥ धनार्थी धनवांश्च विशिष्य क्षमामाद्रियेत् । क्षमा हि श्रीवृद्धिरक्षयोः क्षमा । तदाह
२५२ |