________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
व्ययिता । ततः पुत्रैस्तदैव दशलक्षीं व्यय्याऽष्टोत्तरा कोटी कृताऽष्टौ लक्षाः पुनर्मानिताः । सोऽनशनात् स्वर्गतः । इत्याभडप्रबन्धः।
प्राकृतदुष्कृतदौरात्म्यात् पूर्वावस्थाया अप्राप्तावपि धैर्यमेवावलम्ब्यम् । विपदब्धौ तस्यैव पोतायमानत्वात् । कस्य वा सर्वे दिवसाः सदृशाः स्युः ? । भण्यतेऽपि
को इत्थ सया सुहिओ, कस्सव लच्छी थिराइं पिम्माइं । को मच्चुणा न गसिओ, को गिद्धो नेव विसएसु ॥
ईदृशि विषमे च सन्तोष एव सर्वसुखमूलमालम्बनीयः, अऽन्यथा तच्चिन्ताा भवद्वयकार्येभ्योऽपि परिभ्रश्येत । तत उक्तम्चिंता नामेण नई, आसासलिलेण पूरिआ वहई । बुड्डेसि मंद तारुअसंतोसतरंडए लग्ग ॥
यदा च विविधोपायकरणेऽपि स्वभाग्यदशाया हीनत्वमेवानुभवति, तदा कस्यचिद्भाग्यवतः सुयुक्त्या कथमप्याधारं गृह्णीयात् । काष्ठाधारेण हि लोहपाषाणाद्यपि तरति । 4 श्रूयते हि भाग्यवानेकः श्रेष्ठी, तस्य वणिक्पुत्रो दक्षः । श्रेष्ठिसान्निध्याद्धनी क्रमान्निर्धनः । श्रेष्टिनि मृते तत्पुत्रेभ्यः
सान्निध्यमीहते । ते च तं निर्धनत्वादालापयन्त्यपि न । ततस्तेन द्वित्राप्तसमक्षं श्रेष्ठिजीर्णवहिकायां सहस्रटण्कद्वयं श्रेष्टिनो मया र देयमिति रहः कथमपि स्वहस्तेन लिलिखे । अन्यदा तद् दृष्ट्वा तैस्तन्मार्गणे तेनोक्तं,-"व्यवसाया) कियद्धनमय॑तां, यथा
२५१