________________
प्रथमः
प्रकाशः
२५०
bbbbbbb
विच्छायतां व्रजसि किं ? सहकारशाखिन् ! यत्फाल्गुनेन सहसाऽपहृता मम श्रीः । प्राप्ते वसन्तसमये तव सा विभूतिर्भूयो भविष्यतितरामचिरादवश्यम् ॥
अत्र दृष्टान्तोऽयम् - पत्तने श्रीमालनागराज श्रेष्ठी कोटीध्वजः, प्रिया मेलादेवी, तस्यां साधानायां श्रेष्ठी विशूचिकया मृतः नृपेणाऽपुत्र इति कृत्वा सर्वस्वं गृहीतम् । श्रेष्ठीनी धवलक्कके पितृगृहे गता, अमारिदोहदे पित्रा पूरिते पुत्रो जज्ञे अभयाख्यो, जने 'आभड' इति ख्यातः । पञ्चवर्षः पठन् निस्तात इति बालैरुक्ते निर्बन्धान्मात्रा स्वरुपे उक्ते साग्रहं समहं पत्तने गतः । स्वगृहे | स्थित्वा वाणिज्यं कुर्वन् लाछलदेवीं परिणिन्ये । ततः प्राक्तननिधानलाभादिना कोटीध्वजो जज्ञे । सुतत्रयं जातम् । क्रमाद्दुष्कर्मणा निर्धनत्वे सपुत्रां पत्नीं तत्पितृगृहे प्रेष्य मणिकारहट्टे मणिकादीन् घर्षन् यवमानकं लभते तत् स्वयं पिष्ट्वा पक्त्वा चाऽत्ति ।
यतः–वार्धिमाधवयोः सौधे, प्रीतिप्रेमाङ्कधारिणोः । या न स्थिता किमन्येषां स्थास्यति व्ययकारिणाम् ? ॥
अन्यदा श्रीहेमसूरिपार्श्वे इच्छापरिमाणग्रहणे बहुसङ्क्षेपे गुरुभिर्निषिद्धे नवद्रम्मलक्षाः कृताः, तन्मानेनान्यदपि नियमितम् । शेषं धर्मव्यये कार्यम् । क्रमाद् द्रम्मपञ्चकं ग्रन्थौ जातम् । अथाजां सेन्द्रनीलकण्ठाभरणां पञ्चद्रम्मैः क्रीत्वोपलक्ष्येन्द्रनीलस्य लक्षमूल्या मणयः कारिताः । क्रमाद्धनी प्राग्वज्जज्ञे । कुटुम्बं मिलितम् । साधूनां विहारणे प्रत्यहं घृतघटः । प्रत्यहं साधर्मिकवात्सल्यसत्रागारमहापूजादि । प्रतिवर्षं सर्वदर्शनसङ्घार्चाद्वयनानापुस्तकलेखनचैत्यजीर्णोद्धारबिम्बकरणादि । एवं चतुरशीतिवर्षायुः प्रान्ते धर्मवहिकावाचनेऽष्टनवतिभीमप्रियद्रम्मलक्षव्ययं श्रुत्वा विषण्णः प्राह - हा ! कृपणेन मया कोट्यपि न
श्राद्धविधिप्रकरणम्