________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
बिम्बमुत्थाप्य मम्माणिमणिमयं तत्रयं स्थापयामास । ऋणसम्बन्धे हि प्रायः कलहाऽनिवृत्तेर्वैरवृद्ध्याद्यपि प्रतीतम् । तस्माद्दणसम्बन्धस्तद्भवे एव यथाकथञ्चिन्निर्वाल्यः । अन्यत्रापि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः साधर्मिकैरेव सह मुख्यवृत्त्या व्यवहारो न्याय्यः, तत्पार्श्वे स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपार्खाल्लभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात्, तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तम् । व्युत्सर्गादनुप्राप्तं तु तत्सङ्घस्यैव धर्मव्ययार्थमर्ण्यम् । एवं स्वकीयं गतमपि वित्तवस्तु शस्त्रादिप्राप्त्यसम्भवे व्युत्सृज्यम्, यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्यानन्तभवसत्कं गेहदेहकुटुम्बवित्तशस्त्रादि सर्वं पापहेतु विवेकिना व्युत्सर्जनीयम्, अन्यथा तदुत्थदुष्कृतस्यानन्तैरपि भवैरनिवृत्तेः । न चैतदनागमिकम्, पञ्चमाङ्गे पञ्चमशते षष्ठोद्देशके व्याधेन मृगे हते धनुःशरज्यालोहादिजीवानामपि हिंसादिक्रियाया उक्तत्वात् । न च क्वचित् किञ्चिद्धनहान्यादिना निर्वेदं यायाद्, अनिर्वेदस्यैव श्रियो मूलत्वात् । उच्यते च
सुव्यवसायिनि कुशले, क्लेशसहिष्णौ समुद्यतारम्भे । नरि पृष्ठतो विलग्ने, यास्यति दूरं कियलक्ष्मी: ? ॥
यत्र च धनमर्च्यते तत्र किञ्चिद् यात्यपि, बीजनाशपूर्विकैव हि कर्षकस्यापि धान्यसम्पत्तिः । दुर्दैववशाच्च बहुधनादिहानावपि न दैन्याद्याश्रयेत्, किन्तु धर्मकरणादियथार्हतत्प्रतिक्रियायै प्रयतेत । आह हि -
म्लानोऽपि रोहति तरुः, क्षीणोऽप्युपचीयते पुनश्चन्द्रः । इति विमृशन्तः सन्तः सन्तप्यन्ते न विपदाऽपि ॥ विपदां संपदां चापि, महतामेव सम्भवः । कृशता पूर्णता चापि, चन्द्र एव न चोडुषु ।
२४९