________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
तत्तिअमित्तं जंपह जत्तिअमित्तस्स निक्कयं वहह । तं उक्खिवेह भारं जं अद्धपहे न छंडेइ ॥
जातु धनहान्यादिना दातुमशक्तः, शनैः शनैस्तदर्पणस्वीकारादिनोत्तमर्णः सन्तोष्यः, अन्यथा विश्वासहान्या व्यवहारभङ्गप्रसङ्गः। ऋणच्छेदे सर्वशक्त्या यतितव्यम् । को हि मूढधीभवद्वयपराभवकारणमृणं क्षणमात्रमपि धारयेत् । यदुक्तं
धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥ तैलाभ्यङ्गमृणच्छेदं कन्याभरणमेव च । एतानि सद्योदुःखानि, परिणामे सुखानि तु ॥
स्वनिर्वाहाऽक्षमतया ऋणदानाशक्तेन तूत्तमर्णगृहे यथार्हकर्मकरणादिनापि ऋणमुच्छेद्यम्, अन्यथा भवान्तरे तद्गृहे कर्मकरमहिष-वृषभ-करभ-रासभ-वेसर-तुरगादित्वस्यापि सम्भवात् । उत्तमर्णेनापि सर्वथा ऋणदानाशक्तो न याच्यो, मुधैव क्लेशपापवृद्ध्यादिभावात् । किन्तु 'यदा शक्नोषि तदा दद्याः, नो चेदिदं धर्मपदे मे भूयात्' इति वाच्यः । न तु ऋणसम्बन्धश्चिरं स्थाप्यः, तथा सत्यायु:समाप्तौ भवान्तरे द्वयोमिथः सम्बन्धवैरवृद्ध्याद्यापत्तेः । श्रूयते हि श्रेष्ठिभावडस्य ऋणसम्बन्धेन पुत्रभवनादि । यथादुःस्वप्नदुर्दोहदादिहेतुर्दुष्टः प्रथमपुत्रो मृत्युयोगोत्पन्नो माल्हणीसरित्तीरे शुष्कद्रुमस्याधस्त्यक्तो रुदित्वा हसित्वा चाह-स्वर्णलक्षं मे लभ्यं दत्त, नो चेद्वोऽनर्थो भावीति । ततो जन्मोत्सवादिना षष्ठीदिने लक्षपूर्ती स मृतः । एवं द्वितीयस्त्रिलक्षीपूत्तौ मृतः । सुस्वप्नादिहेतुस्तृतीयपुत्रस्त्वेकोनविंशतिस्वर्णलक्षा मया देया इति वादी जावडि: पित्रोधर्मव्यये तावद्धनं मानयित्वा काश्मीरे नवलक्ष्या ऋषभपुण्डरीकचक्रेश्वरीमूर्तीलात्वा, दशलक्ष्या च प्रतिष्ठाप्याऽष्टादशपोतार्जितासङ्ख्यस्वर्णं शत्रुञ्जये लेप्यमयं
२४८