________________
प्रथम:
प्रकाशः
नर्थापत्तेः । श्रूयते हि श्रेष्ठिजिनदत्तसुतो नाम्नापि मुग्धः पितृप्रसादाल्लीलावान् ? पित्रा दशनरीशुद्धकुलां श्रेष्ठिनन्दिवर्द्धनकन्यां ।
श्राद्धविधिप्रौढोत्सवैः परिणायितः, प्रान्ते तथैव गुणदर्शनाद् गूढार्थवचोभिरेवं शिक्षित:-'वत्स ! सर्वतो दन्तैर्वृत्तिः कार्या १। परस्य लाभार्थं प्रकरणम् धनादि दत्त्वा याच्यं न २। भार्या बद्धवैव ताड्या ३। मिष्टमेव भोज्यं ४। सुखेनैव शेयं ५। ग्रामे ग्रामे गृहं कार्यं ६। दौस्थ्ये गङ्गातटं खननीयं ७। एतदर्थसन्देहे पाटलीपुत्रे मन्मित्रं श्रेष्ठिसोमदत्तः प्रष्टव्यः ८ इति ।' भावार्थानभिज्ञः क्रमात्तथैव स कुर्वन् खेदवान् नि:स्वो भार्याद्यनिष्टः सीदत्कार्यस्त्रुटद्वित्तो महामूर्योऽयमिति सर्वेषां हास्योऽभूत् । ततः पाटलीपुत्रे गत्वा श्रेष्ठिसोमदत्तं भावार्थं पप्रच्छ । तेनोक्तं 'सर्वेषां प्रियं हितं च वाच्यं १। समधिकग्रहणकादानादिना तथा धनादि देयं, यथा स्वयं परोऽर्पयति २। सापत्यैव प्रिया ताड्या अन्यथा रुष्टा पितुर्गृहादौ यायात्, कूपपातादि वा कुर्यात् ३। अनादरे गृहे न भोज्यं, भोजने आदरस्यैव मिष्टत्वात् ४। निःशङ्के स्थाने वस्तव्यं यथा सुखं स्वापः स्यात्, यद्वा बुभुक्षयैव भुञ्जीत, यथा सर्वं मिष्टं स्यात् । निद्रालुरेव शयीत, यथा यत्र तत्रापि सुखं निद्रेति ५। ग्रामे ग्रामे मैत्री कार्या यथा स्वगृहवद् भोजनादि सर्व सुसाधं स्यात् ६। दौस्थ्ये त्वद्गृहस्थगङ्गाख्यगोस्थाने खननीयं, यथा पित्रा प्राङ्न्यस्तं निधि लभसे ७। इति ।' सोऽपि तथा कुर्वन् धनी सुखी महनीयश्च जज्ञे । इति पुत्रशिक्षादृष्टान्तः । तस्मादुद्धारे क्वापि न व्यवहार्यम् । अनिर्वहंस्तु यदि तथापि व्यवहरति, तदा सत्यवादिभिरेव सह कलान्तरमपि देशकालाद्यपेक्षयैकद्विकत्रिकचतुष्कपञ्चकवृद्ध्यादिरूपं शिष्टजनानिन्दितमेव ग्राह्यम् । दायकेनापि प्रोक्तवेलाया अर्वागेव तद्देयं, सज्जननिर्वाहाधीनत्वात्पुंसः प्रतिष्ठायाः । उक्तमपि
२४७