________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
अत्र दृष्टान्तोऽयम्-एकत्र नगरे हेलाकः श्रेष्ठी पुत्रचतुष्कादियुतास्त्रिपञ्चसेरादिमितमानकादिना दानादानादौ त्रिपुष्करपञ्चपुष्करादिपुत्रगालिदानसङ्केतादिना च कूटं व्यवहरति । अन्यदा तत्स्वरूपं ज्ञात्वा चतुर्थवध्वा विदुष्या श्रेष्ठी भृशमुपालब्धो4ऽभ्यधात्, किं क्रियते निर्वाहस्य दौष्कर्यम् ? । बुभुक्षितः किं न करोति पापम् ? । तयोक्तं-तात ! मैवं वादीर्यतो व्यवहारशुद्धिरेव सर्वार्थसाधनी । उक्तमपि
धम्मत्थिआण दव्वट्ठिआण नाएण वट्टमाणाणं । धम्मो दव्वं सव्वं संपज्जइ नन्नहा कहवि ॥
ततः मैवं क्रियतां षण्मासी यावत्परीक्षार्थं, यथा धनवृद्ध्यादि स्यात् । परीक्षाप्राप्तौ त्वग्रतोऽपि कार्या । तगिरा श्रेष्ठ्यपि तथा चक्रे । ततो बहुग्राहकागमनादिना सुखनिर्वाहे पलप्रमाणं सुवर्णं ववृधे । ततो न्यायाजितं धनमप्यायातीति वधूवचसा तत्सुवर्णं लोहवेष्टितं नामाङ्क कट्टलकं कृत्वा षण्मासी तेन व्यवहृत्य हृदमध्ये क्षिप्तम् । मत्स्येन भक्ष्यबुद्धया गिलितं । मत्स्यो धीवरेण गृहीतः, तदुदरात्स्फुटीभूतं नाम्नोपलक्ष्य श्रेष्ठिनोऽपितम् । ततः श्रेष्ठी सकुटुम्बः सञ्जातसत्यप्रत्ययः प्रबुद्धः । सम्यग् व्यवहारशुद्ध्या भृशं समृद्धो राजमान्यः परमः श्राद्ध सर्वजने प्रसिद्धस्तथाऽभूद्यथा तन्नाम्नापि परेषां विघ्नादि टलति । श्रूयते ह्यद्यापि महापोतचालनादौ हेला हेला इत्याधुच्चैर्भाषमाणः । इति व्यवहारशुद्धौ निदर्शनम् ।
स्वामिमित्रविश्वस्तदेवगुरुवृद्धबालद्रोहन्यासापहारादीनि तु तद्धत्याप्रायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि । यत:-कूटसाक्षी दीर्घरोषी, विश्वस्तघ्नः कृतघ्नकः । चत्वारः कर्मचाण्डाला, पञ्चमो जातिसम्भवः ॥
२५६