SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः जातु अन्यथा निर्वाहाभावे सम्यक्त्वप्रतिपत्तौ 'वित्तीकंतारेणं' इत्याकारकरणान्मिथ्यादृशोऽपि यदि सेवां कुर्यात्तदापि यथा-2 श्राद्धविधिशक्तियुक्तिस्वधर्मबाधां टालयति । अन्यप्रकारेण स्वल्पेऽपि निर्वाहयोगे तु तत्सेवामपि त्यजति ६। प्रकरणम् भिक्षा धातुधान्यवसनादीभैक्ष्यभेदादनेकभेदा । तत्र च धर्मोपष्टम्भमात्रहेतुराहारवस्त्रपात्रादिभिक्षा सर्वसङ्गपरित्यागवतामौचितीमञ्चति । यदुच्यतेप्रतिदिनमयत्नलभ्ये ! भिक्षुकजनजननि ! साधुकल्पलते !! नृपनमनि ! नरकवारिणि ! भगवति ! भिक्षे ! नमस्तुभ्यम् ॥ शेषभिक्षा तु 'न्यक्षाऽप्यत्यन्तलाघवहेतुरेव । वदन्ति चता रूवं ताव गुणा लज्जा सच्चं कुलक्कमो ताव । तावच्चिअ अभिमाणं, देहि त्ति न जंपए जाव ॥ तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ भिक्षाभोजिनश्च निश्चिन्ततया बह्वशनाऽऽलस्यनिद्रादिप्राचुर्यसम्भवेनाकिञ्चित्करत्वं नासुलभम् । १. सर्वा इति को० ह० प्र० पाठः । २४२
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy