________________
प्रथम:
IA
श्राद्धविधिप्रकरणम्
प्रकाशः
श्रूयते हि कस्यचित्कपालिनो भिक्षाकपरे तैलिकवृषभेण मुखे प्रक्षिप्ते बहुहाहारवादिपूर्वं कपालिनोक्तं, मम पुनर्भूयस्यपि भिक्षा भवित्री परमेष वृषभो भिक्षाभाजनमुखप्रक्षेपात् मा भवतामकिञ्चित्करोऽभूत्, इति बहु दूनोऽस्मीति । उक्तञ्च भिक्षात्रैविध्यं श्रीहरिभद्रसूरिभिः पञ्चमाष्टके
सर्वसंपत्करी चैषा पौरुषघ्नी तथा परा । वृत्तिभिक्षा च तत्त्वज्ञैरिति भिक्षा त्रिधोदिता ॥ (१) यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसंपत्करी मता ॥ (२) प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्त्तते । असदारम्भिणस्तस्य पौरुषघ्नी च कीर्तिता ॥ (४)
अत्र तस्येति विशेष्यम्, असदारम्भिण इति विशेषणम् । यद्वा चस्य गम्यत्वात्तस्य प्रव्रज्याविरोधवर्तिनः प्रव्रजितस्य असदारम्भिणो गृहस्थस्य च ।
धर्मलाघवकृन्मूढो भिक्षयोदरपूरणात् । करोति दैन्यात्पीनाङ्गः पौरुषं हन्ति केवलम् ॥ अष्ट० ५-५ निःस्वान्धपङ्गवो ये तु न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते ॥ अष्ट० ५-६
इयं च नातिदुष्टा नि:स्वान्धादीनां धर्मलाघवकारित्वाभावेनानुकम्पानिमित्तत्वात्, तस्माद् भिक्षावृत्तिर्गृहस्थेन वर्जनीया, विशिष्य च धर्मवता, विशिष्टस्यापि धर्मानुष्ठानस्य, तया दुर्जनसौहार्दस्येवाऽवज्ञानिन्दास्पदत्वाद्यापत्तेः । धर्मनिन्दानिमित्ततायां च
२४३