________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
नात्यासन्नो न दूरस्थो न समोच्चासनस्थितः । न पुरस्थो न पृष्टस्थस्तिष्ठेत् सदसि न प्रभोः ॥ आसन्ने स्यात् प्रभोर्बाधा दूरस्थेऽप्यप्रगल्भता । पुरस्थितेऽन्यकोपोऽपि तस्मिन् पश्चाददर्शनम् ॥ श्रान्तं बुभुक्षितं क्रुद्धं व्याकुलं शयनोन्मुखम् । पिपासुमन्नविज्ञप्तं नैव विज्ञापयेद् विभुम् ॥ राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे वर्तितव्यं महीशवत् ॥ । आदौ मयैवायमदीपि नूनं न तद्दहेन्मामवहीलितोऽपि । इति भ्रमादङ्गलिपर्वणाऽपि स्पृश्येत नो दीप इवावनीपः ॥
राज्ञो मान्यत्वेऽपि गर्वः सर्वथा न कार्यो, 'गव्यो मूलं विणासस्स' इत्युक्तेः । श्रूयतेऽपि ढिल्ल्यां मान्यप्रधानेन गवितेन मयैव राज्यं निवर्हति इति कस्याप्यग्रे उक्तं श्रुत्वा सुरत्राणस्तं निष्कास्याऽऽसन्नं चर्मकारं रांपडीहस्तं तत्पदे न्यवीविशत्, तस्य लेखादौ रांपड्येवाभिज्ञानम् । तदन्वयोऽद्यापि मान्योऽस्ति । एवं सेवया च नृपत्यादिप्रसत्त्सम्भवे ऐश्वर्यादिलाभोऽपि न दुःसम्भवः । यदूचे
इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च । प्रसादो भूभुजां चैव सद्यो जन्ति दरिद्रताम् ॥ निन्दन्तु मानिनः सेवां राजादीनां सुखैषिणः । स्वजनाऽस्वजनोद्धारसंहारौ न तया विना ॥ कुमारपालनृपो नष्टचर्यायां सम्यक्सेवातुष्टो वोसिरिविप्राय लाटदेशं ददौ । जितशत्रुनृपो यामिकाय राजपुत्रदेवराजाय |
२४०