________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAA
कामन्दकीये नीतिसारेऽपिवृद्धोपसेवी नृपतिः सतां भवति सम्मतः । प्रेर्यमाणोऽप्यसवृत्तै कार्येषु प्रवर्त्तते ॥ स्वामिना च सेवकानुरूपं सन्मानादि कार्यम् । यतःनिर्विशेषं यदा राजा समं भृत्येषु वर्त्तते । तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥ सेवकेनापि भक्तिचातुर्यादिगुणयुजा भाव्यम् । यतःअप्राज्ञेन च कातरेण च गुण: स्यात्सानुरागेण कः ?, प्रज्ञाविक्रमशालिनोऽपि हि भवेत् किं भक्तिहीनात् फलम् ? || प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये, ते भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च ॥ राजा तुष्टोऽपि भृत्यानां मानमानं प्रयच्छति । ते तु सन्मानितास्तस्य प्राणैरप्युपकुर्वते ॥ सेवां च सततमप्रमत्तः कुर्यात् । तदाहसर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर्वशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ तद्विधिश्च नीतिशास्त्रादावेवम्आसीत स्वामिनः पार्श्वे तन्मुखेऽक्षीकृताञ्जलिः । स्वभावं चास्य विज्ञाय दक्षः कार्याणि साधयेत् ॥
ससस सससस सससससस ससस
२३९