________________
वणिगादिनां च धर्माविरोधो व्यवहारशुद्ध्यादिना तथैव चाह
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
ववहारसद्धि-देसाइविरुद्धचाय-उचिअचरणेहिं । तो कुणइ अत्थचिंतं, निव्वाहितो नि धम्मं ॥७॥
ततः प्रागुक्तकृत्यानन्तरं व्यवहारस्य धनार्जनाद्युपायस्य शुद्धिनिर्दोषता मनोवाक्कायाऽवक्रतेत्यर्थः । तथा देशादिविरुद्ध-| कृत्यानां त्यागः परिहारः । उचितकृत्याचरणं च । एभिस्त्रिभिरपि वक्ष्यमाणलक्षणं निजं धर्म स्वीकृतव्रताभिग्रहादिरूपं | निर्वाहयन्, नतु क्वचन किञ्चनापि लोभाधिक्यविस्मृत्यादिना बाधयन्, अर्थचिन्तां धनार्जनाद्यौपयिकं करोति । यदाह
नहि तद्विद्यते किञ्चिद्यदर्थेन न सिद्ध्यति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ अत्र चार्थचिन्तामित्यनुवाद्यं, तस्याः स्वयंसिद्धत्वात् । धर्मं निर्वाहयन्निति तु विधेयम्, अप्राप्तत्वात् । तदुक्तंइह लोइअम्मि कज्जे, सव्वारंभेण जह जणो जयइ । तह जइ लक्खंसेण वि, धम्मे ता किं न पज्जत्तं ॥
आजीविका च सप्तभिरुपायैः स्याद् । वाणिज्येन, विद्यया, कृष्या, पाशुपाल्येन, शिल्पेन, सेवया, भिक्षया च । तत्र वाणिज्येन वणिजां, विद्यया वैद्यादीनां, कृष्या कौटुम्बिकादीनां, पाशुपाल्येन गोपालाऽजापालादीनां, शिल्पेन चित्रकारादीनां,
२३४ /