________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
सेवया सेवकानां, भिक्षया भिक्षाचराणाम् ।
तत्र वाणिज्यं धान्य-घृत-तैल-कास-सूत्र-वस्त्र-धातु-मणि-मौक्तिक-नाणकादिक्रयाणक भेदैरनेकविधम् । लोके हि षष्ठ्यधिका त्रिशती क्रयाणकानि इति प्रसिद्धिः । भेदप्रभेदादिव्यक्तिविवक्षायां त्वलब्धसङ्ख्यान्यपि तानि। कलान्तरव्यवहारोऽपि वाणिज्येऽन्तर्भवति १।
विद्याप्यौषध-रस-रसायन-चूर्णाञ्जन-वास्तु-शकुन-निमित्त-सामुद्र-चूडामणि-धर्मार्थ-काम-ज्योतिस्तर्कादिभेदैर्नानाविधा । इह वैद्यविद्या गान्धिकत्वं च प्रायो दुर्ध्यानसम्भवादिना विशेषगुणाय न दृश्यते । यद्यपि सधनमान्द्यादौ वैद्यगान्धिकयो रिलाभ: स्थाने बहुमानादि च स्यात् । यतः-आतुरे हि पिता वैद्यः । तथा
रोगिणां सुहृदो वैद्याः प्रभूणां चाटुकारिणः । मुनयो दुःखदग्धानां गणकाः क्षीणसंपदाम् ॥ पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिकैः । यत्रैकेन गृहीतं यत्तत्सहस्रेण दीयते ॥ तथापि यस्य यथा लाभः स प्रायस्तथैवेहते । तदुक्तंविग्रहमिच्छन्ति भटा वैद्याश्च व्याधिपीडितं लोकम् । मृतकबहुलं च विप्राः क्षेमसुभिक्षं च निर्ग्रन्थाः ॥
२३५