________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
A
दण्ड: ? तैरुक्तं-देव ! राज्याह एक एव पुत्रः, तस्य को दण्ड:?' नृपः प्राह:-"कस्य राज्यम् ? कस्य वा सुतो? मम न्याय एव गरीयान् ।" यतः - दुष्टस्य दण्डः स्वजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥
सोमनीतावप्युक्तं-अपराधानुरूपो हि दण्डः पुत्रेऽपि प्रणेतव्यः । इति । ततो यदस्य योग्यं स्यात्तत्कथयतेत्युक्तेऽपि तेष्ववदत्सु, 'योऽन्यस्य यद्यथा कुरुते तत्तस्य तथा विधीयते । कृते प्रतिकृतं कुर्याद् इत्यादिवचनात् ।' इति स्वयं नृपेण वाहिनीमानाय्य पुत्रस्योक्तम्-'इह स्वपिहि ।' सोऽपि विनीत: सुप्तः । राज्ञोक्तम्, अस्योपरि वेगेन वाहिनीं वाहयत । कोऽपि न वाहयति । ततो नृपः सर्वैर्निवार्यमाणोऽपि यावत् स्वयमुपविश्य तां पुत्रचरणयोरुपरि वाहयति, तावदेवी प्रकटीभूय पुष्पवृष्टिं चक्रे । न गौर्न वत्सः । देव्योक्तं, 'राजन् ! मया तव परीक्षा कृता, प्राणप्रियैकपुत्रादपि तव न्यायः प्रियतमः इति राज्यं चिरं निर्विघ्नं कुरु ।' |
इति न्याये दृष्टान्तः । नियोगिनां तु धर्माविरोधो राजार्थप्रजार्थयोः साधनेनाऽभयकुमारचाणक्यादिवत् । यतःनरपतिहितकर्ता द्वेष्यतामेति लोके जनपदहितकर्ता मुच्यते पार्थिवेन । इति महति विरोधे वर्तमानेऽसमाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥
सससस सससस ससससस
२३३