________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
जो इह पढइ अपुव्वं, स लहइ तित्थंकरत्तमन्नभवे । जो पुण पाढेइ परं, सम्मसुअं तस्स किं भणिमो ॥ स्वल्पतरप्रज्ञतायामपि पाठोद्यमे माषतुषादीनामिव तद्भवेऽपि केवलज्ञानलाभादिफलं विभावनीयमिति षष्ठगाथार्थः ॥
ततो यदि राजादिस्तदा धवलगृहम् यदा त्वमात्यादिस्तदा करणम्, अथ वणिगादिस्तदानीमापणादिकम्, एवं स्वस्वोचितस्थानं गत्वा धर्माविरोधेनार्थचिन्तां कुर्यात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमाधमयोश्च माध्यस्थ्येन न्यायदर्शनाद् बोद्धव्यः । अत्र ज्ञातं यथा
कल्याणकटकपुरे यशोवर्मा नृपो न्यायैकनिष्ठः, तेन निजधवलगृहद्वारि न्यायघण्टा बन्धिता । एकदा राज्याधिष्ठात्री देवी नृपतिन्यायव्रतपरीक्षार्थं धेनुरूपं तत्कालजातवत्सरूपं च कृत्वा राजमार्ग स्थिता । अत्रान्तरे नृपपुत्रो वेगवत्तरवाहिनीमारूढस्तत्र प्राप्तो, वेगवशाच्च वाहिनी वत्सचरणयोरुपरि गता । वत्सो मृतः धेनुः कोकूयतेऽश्रूणि च मोमुच्यते । केनाप्युक्तं, 'राजद्वारे गत्वा न्यायं याचस्व' । सा गता । तया शृङ्गाग्रेण घण्टा चालिता । नृपस्तदानीं भोक्तुमुपविष्टः शब्दं श्रुत्वा बभाषे, 'रे! कोऽयं घण्टां चालयति ?' सेवकैविलोक्योक्तं-'देव ! कोऽपि न, भुज्यतां ।' नृपः प्राह-निर्णयं विना कथं भुञ्जे? । नृपः स्थालं त्यक्त्वा | प्रतोल्यामागत्याऽन्यं कमप्यदृष्ट्वा धेनुं प्राह-कि केनापि पराभूताऽसि ? दर्शय मम तम् । साऽग्रे भूता । नृपः पृष्ठे लग्नः, तया वत्सो दर्शितः । नृपेणोक्तं-येनेयं वाहिनी वाहिता स पुरो भवतु । कोऽपि किमपि न वक्ति । राज्ञोक्तं तदा भोक्ष्ये यदा स स्फुटीभविष्यति । राज्ञो लङ्घने जाते कुमारेण प्रातरुक्तं-'देवाऽहमपराधी मम दण्डं कुरु यथार्हम् । राज्ञा स्मृतिज्ञाः पृष्टाः, कोऽस्य |
AAAA
२३२ |