________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
तथा निवारयति सर्वशक्त्या जिनप्रवचनप्रत्यनीकान् साधुनिन्दादिपरान् । यतःतम्हा सइ सामत्थे, आणाभट्ठम्मि नो खलु उवेहा । अणुकूलेहिअरेहि अ, अणुसट्टी होइ दायव्वा ॥
यथाऽभयकुमारेण द्रमकमुनिनिन्दाकृज्जनो बुद्ध्या निवारितः । एवं साधुवत्साध्वीनामपि सुखकृत्यनिर्वाहप्रश्नादि सर्वं कार्यम् । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम् । स्वगृहप्रत्यासत्तौ समन्ततो गुप्ताया गुप्तद्वारवसतेर्दानम् । स्वस्त्रीभिश्च तासां परिचर्याविधापनम् । स्वपुत्रिकाणां च तत्सन्निधौ धारणम् । व्रतोद्यतानां स्वपुत्र्यादीनां च प्रत्यर्पणम् । तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणम् । सकृदन्यायप्रवृत्तौ शिक्षणम् । पुनः पुनः प्रवृत्ती निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनोपचरणं चेति ।
तथा गुरुपायें करोति किञ्चिदपूर्वपठनम् । यतःअञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च वर्द्धनम् । अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु ॥ संतोषस्त्रिषु कर्त्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्यो दाने चाध्ययने तपे ॥ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् । अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत् ॥ जह जह सुअमवगाहइ, अइसयरसपसरसंजुअमपुव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए ।
२३१