________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
पारणार्थनिमन्त्री जीर्णश्रेष्ठी चतुर्मासीप्रान्तेऽद्य पारणं भाव्येवेति दृढं निमन्त्र्य गृहे गतो धन्योऽहं स्वामी अद्य मद्गृहे पारणं कर्तेत्यादि भावनयैवाच्युतस्वर्गायुर्बबन्ध । पारणं तु स्वामी मिथ्यागभिनवश्रेष्ठिना भिक्षाचररीत्या दासीपार्वाद् दापितकुल्माषैश्चक्रे । तदा देवदुन्दुभिध्वनि जीर्णश्रेष्ठी यदि नाश्रोष्यत्तदा केवलमप्याजिष्यदिति ज्ञानिनोक्तम् । इति निमन्त्रणे ज्ञातम् । आहारादिदाने श्रीशालिभद्रादिः, औषधदाने च श्रीवीरौषधदात्री बद्धजिनकर्मा रेवती ज्ञातम् । ग्लानस्य प्रतिचरणे च महत् फलम्। यदागमः
'गोअमा ! जे गिलाणं पडिअर से मं दंसणेणं पडिवज्जइ । जे मं दंसणेणं पडिवज्जइ से गिलाणं पडिअरड़ । आणाकरणसारं खु अरिहंताणं दंसणं' इत्यादि ।
अत्र कृमिकुष्ठोपद्रुतयतिप्रतिक्रियाकृत् श्रीऋषभजीवजीवानन्दवैद्यो ज्ञातम् । तथा ददाति सुस्थाने योग्यमुपाश्रयादि । यत:वसहीसयणासणभत्तपाणभेसज्जवत्थपत्ताई । जइवि न पज्जत्तधणो, थोवा वि हु थोवयं देइ ॥ जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा ॥ जयन्तीवङ्कचूलाद्याः कोशा चाश्रयदानतः । अवन्तिसुकुमालश्च तीर्णाः संसारसागरम् ॥
ससस सससससससससस ससससस
२३०