________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
द्रव्यसमुदायरूपम् । इदं च निमन्त्रणं सम्प्रति गुरूणां बृहद्वन्दनकप्रदानानन्तरं श्राद्धाः कुर्वन्ति । येन च प्रतिक्रमणं गुरुभिः सह कृतं भवति, स सूर्योदयादनु यदा स्वगृहादौ याति तदा तत् करोति । यस्य च प्रतिक्रमणवन्दनकयोगो न स्यात्तेनापि वन्दनाद्यवसरे एवं निमन्त्रणं क्रियते । मुख्यवृत्त्या तु द्वितीयवारदेवपूजानैवेद्यढौकनानन्तरमुपाश्रये गत्वा साधून्निमन्त्रयेत् । श्राद्धदिनकृत्यसूत्रादौ तथा दर्शनात् । ततो यथावसरयोगं कारयति चिकित्सां, ददात्यौषधादि, विहारयति यथार्ह पथ्यादि, सारयति सर्वप्रयोजनानि । यतः
दाणं आहाराई, ओसहवत्थाई जस्स जं जोगं । णाणाईण गुणाणं, उवठंभणहेउ साहूणं ॥
गृहागतानां च साधूनां यद् यद्योग्यं तत्तत्सर्वं विहारयितुं प्रत्यहं नामग्राहं कथयति, अन्यथा प्राकृतनिमन्त्रणस्य वैफल्यापत्तेः, नामग्राहं कथने तु यदि साधवो न विहरन्ति, तदापि कथयितुः पुण्यं स्यादेव । यदवोचाम
मनसाऽपि भवेत्पुण्यं वचसा च विशेषतः । कर्त्तव्येनापि तद्योगे स्वर्द्वमोऽभूत् फलेग्रहिः ॥
अकथने तु विलोक्यमानमपि साधवो न विहरन्ति इति महती हानिः । एवं निमन्त्रणेऽपि जातु साधवो नायान्ति तदापि निमन्त्रयितुः पुण्यं स्याद्, भावविशेषे त्वधिकतरमिति' । यथा-वैशाल्यां छाद्मस्थ्ये चतुर्मासीतपसा प्रतिमास्थस्य श्रीवीरस्य प्रत्यहं
२२९
१. मपि इति को० ह० प्र० पाठः ।