________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
| न सम्यक्रियायां प्रवृत्तिः । पठ्यते च
अज्ञस्य शक्तिरसमर्थविधेर्निबोधस्तौ चारुचेरियममू तुदती न किञ्चित् । अन्धामिहीनहतवाञ्छितमानसानां दृष्टा न जातु हितवृत्तिरनन्तरायाः ॥ (वसन्ततिलका)
ततो ज्ञानदर्शनचारित्रयोगे मोक्ष इति तत्त्रयाराधनाय यतेतेति तात्पर्यम् । तथा पृच्छति यतिकृत्यनिर्वाहम् । यथा निर्वहति | युष्माकं संयमयात्रा? सुखरात्रिर्भवतां? निराबाधाः शरीरेण यूयं? न बाधते वः कश्चिद् व्याधिः? न: योग्यं किमपि वैद्यादेवः प्रयोजनं किञ्चिदौषधादिना ? नार्थित्वं किञ्चित्पथ्यादिना ? इत्यादि । एवं प्रश्नश्च महानिर्जराहेतुः । यतः
अभिगमणनवंदणनमंसणेण पडिपुच्छणेण साहूणं । चिरसंचिअंपि कम्मं, खणेण विरलत्तणमुवेइ ॥
प्राग्वन्दनाऽवसरे सामान्यतः-सुहराईसुहतपसरीरनिराबाधेत्यादिप्रश्नकरणेऽपि विशेषेणात्र प्रश्नः सम्यक्स्वरूपपरिज्ञार्थस्तदुपायकरणार्थश्च । अत एव' पदोर्लगित्वा, 'इच्छाकारि भगवन् पसाउ करी फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुच्छणेणं पाडिहारिअपीढफलगसिज्जसंथारेणं ओसहभेसज्जेणं भयवं अणुग्गहो कायव्वो ।' इति व्यक्त्या निमन्त्रणं च कार्यम् । अत्र शय्या सा यत्र प्रसारितपादैः सुप्यते, संस्तारकस्तु किञ्चिल्लघुः । औषधमेकद्रव्याश्रयम् । भैषज्यं तु
१. एवात्र इति को० ह० प्र० पाठः ।
२२८