________________
प्रथमः
A
श्राद्धविधिप्रकरणम्
प्रकाशः
स्निग्धाहारगृङ्ख्या बहिर्न विहरति । ततः शिष्याः पन्थकं तद्वैयावृत्ये नियोज्य विजहुः । अन्यदा कार्तिकचतुर्मासकदिने सेलको यथेष्टं भुक्त्वा सुप्तः प्रतिक्रमणवेलायां पन्थकेन श्रामणार्थं पादयोः शिरसा घट्टितः प्रबुद्धो रुष्टः । पन्थकः प्राहचतुर्मासकापराधक्षामणाय मया पादौ स्पृष्टौ । सेलको वैराग्यप्राप्तो व्यचिन्तयत्, धिग् मां रसगृद्धं, ततो विजहार। अन्येऽपि शिष्या मिलिताः । शत्रुञ्जये तैः सह सिद्धः । इति थावच्चापुत्रकथा । तस्मात् प्रत्यहं सद्गुरुभ्यः शृणोति धर्मोपदेशम् । श्रुत्वा चानुतिष्ठति तदादिष्टमर्थं यथाशक्ति । यतो नौषधभक्ष्यादिज्ञानमात्रेणाऽऽरोग्यतृप्त्यादि किन्तु क्रियोपयोग एव । आह च
क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्री-भक्ष्य-भोगज्ञो न ज्ञानात् सुखितो भवेत् ॥ जाणतो वि अ तरिउं, काइअजोगं न जुंजइ नइए । सो बुज्झइ सोएणं एवं नाणी चरणहीणो ॥
दशाचूर्णावपि-जो अकिरिआवाइ सो भविओ अभविओ वा निअमा किण्हपक्खिओ । किरिआवादी निअमा भविओ, निअमा सुक्कपक्खिओ, अंतो पुग्गलपरिअट्टस्स नियमा सिज्झहिइ, सम्मदिट्ठी वा हुज्जा ।
न च ज्ञानरहिता क्रियापि परिणतिरहिता । यतःअन्नाणा कम्मखओ, जायइ मण्ड्डक्कचुण्णतुल्लत्ति । सम्मकिरिआइ सो पुण, नेओ तच्छारसारिच्छो ॥ जं अन्नाणी कम्मं, खवेइ बहुआहि वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेण ॥ अत एव तामलिपूरणादीनां बहुतप:क्लेशेऽपीशानेन्द्रत्वचमरेन्द्रत्वाद्यल्पफलम् । ज्ञानवतोऽपि श्रद्धानं विनाऽङ्गारमर्दकादेखि
AAAAAAAAAAAAAA
२२७