________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
यत:
धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिःसृतवचनसरसचन्दनस्पर्शः ॥ प्रशमरतिः
धर्मदेशनाश्रवणे चाज्ञानमिथ्याज्ञानव्यपगम-सम्यक्तत्त्वावगम-नि:संशयत्व-धर्मदृढत्व-व्यसनाद्युन्मार्गनिवृत्ति-सन्मार्गप्रवृत्ति4 कषायादि-दोषोपशम-विनयादिगुणार्जनोपक्रम-कुससर्गपरिहार-सुसंसर्गाङ्गीकार-भवनिविण्णता-संविग्नता-सम्यक्श्राद्धसाधुधर्माभ्युपगमन-सर्वाङ्गीणतदैकाग्र्याराधनादयोऽनेके गुणा नास्तिकप्रदेशिनरेश-श्रीमदाम-कुमारपाल-थावच्चापुत्रादीनामिव मन्तव्याः । तदाह
मोहं धियो हरति कापथमुच्छिनत्ति, संवेगमुन्नमयति प्रशमं तनोति । सूते विरागमधिकं मुदमादधाति, जैनं वचः श्रवणतः किमु वा न दत्ते ॥ पिण्डःपाती बन्धवो बन्धभूताः सूतेऽनर्थानर्थसंपद्विचित्रान् । संवेगाद्या जैनवाक्यप्रसूताः कं कं कुर्यु!पकारं नराणाम् ॥ प्रदेशिनरेशनिदर्शनलेशश्चायम् । श्वेताम्बीपुर्यां प्रदेशी राजा, चित्रो मन्त्री, श्रावस्त्यां चतुर्ज्ञानिकेशिगणेन्द्राद् गृहीतसुश्राद्ध
१. यन्न इति को० ह० प्र० पाठः ।
२२४