________________
प्रथमः प्रकाशः
२२५
धर्मस्तगिरा केशिगुरोः श्वेताम्ब्यामागतस्य पार्श्वेऽश्ववाहिकाव्याजतश्चित्रेण प्रदेशी नीतः सगर्वमूचे - महर्षे ! मा मृषा कष्टं कार्षीः, धर्माद्यभावात् मम माता श्राविकाऽभूत्, पिता तु नास्तिकः, अन्ते मया बहूक्तावपि ताभ्यां मृताभ्यां स्वर्गसुखनरकदुःखलाभादि न किमप्यावेदितं मम । एकश्च चौरस्तिलखण्डशः, कृतो न त्वात्मा क्वापि दृष्टो, जीवनमृततोलनेऽपि नान्तरं ज्ञातं, निश्च्छिद्रकुम्भ्यन्तश्चैकः क्षिप्तो मृतस्तद्देहे चासङ्ख्याः कृमयो दृष्टाः । निर्गमप्रवेशद्वारं तु जन्तूनां क्वापि न दृष्टम् । एवं बहु परीक्ष्य नास्तिकीभूतोऽस्मि । गुरुणोक्तं सुखदुःखोत्कर्षाक्रान्त्या तव पित्रोरत्र नागमनम् । अरणिकाष्टान्तर्भूताग्नि- वायुभृतदृति| तोलनकुम्भ्यन्तः क्षिप्तशङ्खवादक ध्वन्यादिदृष्टान्तैर्जीवोऽप्यस्तीत्यादियुक्तिभिर्बोधितोऽभ्यधात् - सत्यमिदं परं कुलक्रमागतां नास्तिकतां कथं मुचे ? गुरुणोक्तं - दौस्थ्यव्याधिदुःखादिवत् क्रमागतापि सा त्याज्यैव । ततः सुश्राद्धीभूतः । कदाचित्पौषधोपवासपारणेऽन्यपुरुषासक्तसूर्यकान्तया दत्तविषो ज्ञाततद्व्यतिकरश्चित्रमन्त्रिगिरा सुसमाहितः कृताराधनाधनार्जन: ' सौधर्मसूर्याभविमाने सुरोऽभूत् । सूर्यकान्ता तु विपदा ज्ञातास्मीति भीता नष्टाऽरण्ये । फणिना दष्टा नरकं प्राप । आमलकल्पापुर्यां समवसृतश्रीवीरस्याग्रे सूर्याभदेवः सव्यापसव्यबाहुभ्यामशष्टोत्तरशतखेलखेलिकाप्रकटनादिना दिव्यनाट्यं कृत्वा गतो, गौतमपृष्टश्च स्वाम्याख्यत् तत्प्राग्भवमहाविदेहसिद्ध्यादि ॥ इति प्रदेशिदृष्टान्तः ।
श्रीआमनृपः श्रीबप्पभट्ट्याचार्यस्य, कुमारपालस्तु श्रीहेमसूरेः प्रतिबुद्धः प्रसिद्ध एव । थावच्चापुत्रस्तु द्वारवत्यां प्रौढतरद्धि१. राधनानशनः इति को० ह० प्र० पाठः ।
श्राद्धविधि
प्रकरणम्