________________
प्रथमः
AAAAAAAA
श्राद्धविधिप्रकरणम्
प्रकाशः
तत्तो चरित्तधम्मो, कम्मविवेगो अपुव्वकरणं तु । तत्तो केवलनाणं तत्तो मुक्खो सयासुक्खो ॥ ततो वन्दते यथाविधि चतुर्विधं साध्वादिसङ्घम् । चैत्यादौ गुर्वागमनाद्यवसरे चाभ्युत्थानादिप्रतिपत्तिः कार्या । यदाहुःअभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥ आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥ आसनाभिग्रह इति आसने उपविष्टेषु गुर्वादिषु स्वयमासितव्यमित्यभिग्रहः । ततश्चन पक्खओ न पुरओ नेव किच्चाण पट्ठओ । न य उरुं समाज्ज, चिट्ठिज्जा गुरुणंतिए ॥ दश० ८-४६ 'पक्खओत्ति' पक्षतः पार्श्वयोरविनयसम्भवात् । 'किच्चाणत्ति' कृत्यानां गुरूणाम् । नेव पल्हत्थिअं कुज्जा, पक्खपिण्डं च संजए । पाए पसारिए वावि न चिट्ठे गुरुणंतिए । 'पल्हत्थिअंति' पर्यस्तिकां 'पक्षपिण्डं' बाहुपर्यस्तिका, 'संजएत्ति' प्रस्तावाद्देशसंयतः । पर्यस्तिका अवष्टम्भं तथा पादप्रसारणम् । विकथाः प्रबलं हास्यं वर्जयेद् गुरुसन्निधौ ॥ निद्दाविकहापरिवज्जिएहिं गुत्तेहिं अंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥ इत्यादिश्रुतोक्तविधिना गुरोराशातनावर्जनार्थमर्द्धचतुर्थहस्तप्रमाणादवग्रहक्षेत्राद् बहिर्निर्जन्तुभूभागेऽवस्थाय धर्मदेशना श्रोतव्या । |
२२३