________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
वसति । तथान्यस्थानाभावे तीर्थादौ चैत्ये यदि बहुस्थितिस्वापादि क्रियते तदापि व्यापारणानुसारेणाऽधिकनिष्क्रयो मोच्यः । स्तोकनिष्क्रयार्पणे स्पष्ट एव दोषः । एवं च सम्यग् निष्कयार्पणं विना देवज्ञानसाधारणसत्कं, कर्पटक-नालिकेर-स्वर्ण-रूप्यपट्टिका-कलश-पुष्प-पक्वान्न-सुखभक्षिकादिकमुद्यापन-नन्दि-पुस्तिकार्चादौ न मोच्यम् । उद्यापनादौ हि प्रौढाडम्बरेण स्वनाम्ना मण्डिते बहुजनश्लाघादि स्यात् । स च स्तोकं निष्कयं मुञ्चतीति व्यक्त एव दोषः । अत्र लक्ष्मीवती ज्ञातम् । यथा-सा महद्धिर्धर्मिष्ठा महत्त्वार्थिनी स्तोकस्तोकनिष्क्रयार्पणेन विविधोद्यापनादिपुण्यकार्याणि प्रौढाडम्बराण्यजस्रं करोति कारयति च । देवादिद्रव्यं वर्धयन्त्यस्मि, प्रभावनां च प्रोज्झम्भयन्त्यस्मीति धिया । एवं श्राद्धधर्ममाराध्य मृता स्वर्गतापि प्रज्ञापराधदोषाधीनसुरीत्वेनोत्पन्ना, क्रमाच्च्युता महेभ्यस्य निरपत्यस्य मान्यपुत्रीत्वेनोत्पन्ना । परं तस्या गर्भस्थत्वे मातुः सीमन्तमह: परचक्रभयोद्रेकेण जन्म-षष्ठी-नामस्थापना-मुण्डनादिमहाश्च नृपत्यमात्यादीनां गृहे शोकोत्पत्त्या नाजायन्त पित्रा प्रौढप्रौढतराडम्बरेण प्रारब्धा अपि । तथा मणिस्वर्णाभरनानि सर्वाङ्गीणानि पित्रा सादरं कारितान्यपि तया दिनमात्रमपि परिधातुं नाशक्यन्त स्तेनादिभयेन । एवं भोजननेपथ्यादावपि प्रायो यद्यत्सामान्यं तत्तत्तस्या आपतती सर्वत्र मान्यत्वेऽपि प्राक्कर्मदोषेण । तदुक्तं केनचित्
सायर तुज्झ न दोसो दोसो अम्हाण पुव्वकम्माणं । रयणायरम्मि भरिए, सालुरो हत्थि मे लग्गो ॥ अस्या एकोऽपि महो न जातोऽस्तीत्यत्याडम्बरेण पित्रा तस्या विवाहे विधीयमाने लग्नासत्तौ माता मृता । तेन निरुत्सवं |
२१६