________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई । जो वावारइ मूढो, नियकज्जे सो हवइ दुहिओ ॥
निष्क्रयं दत्वा स्वकार्यार्थं गृहीतस्य देवझल्लर्यादिकस्य जातु भङ्गादिविनाशे स्वद्रव्येण समारचनं कार्यम् । स्वगृहार्थकृतदीपस्य देवदर्शनार्थमेव देवाग्रे आनयनेऽपि देवसत्कत्वं न स्यात्, पूजार्थमेव देवाग्रे मोचने तु देवसत्कत्वम् । मुख्यवृत्त्या देवदीपकृते कौशिकादि पृथगेव कार्यम् । स्वकौशिकादौ देवपूजार्थं दीपकरणे तु तैलवादि स्वकार्ये न व्यापार्यम् । एवं केनाप्यर्चाकृत्करान्रिक्षालनाद्यर्थं यदि जलं चैत्ये मुक्तं स्यात्तदा तज्जलव्यापारणेऽपि न दोषः । तत एव स्वगृहे पिङ्गानिकाचङ्गेरीओरसादि श्रीखण्डकर्पूरकस्तूर्यादि न स्वनिश्रास्थमेव देवपूजादौ व्यापार्यं, न तु देवसत्कं कार्यम् । तथा सति | स्वगृहप्रयोजनेऽपि व्यापारयितुं कल्पते, एवं झल्लरीभेर्याद्यपि । यदि साधारणं कृत्वा मुक्तं स्यात्तदा धर्मकार्ये सर्वत्र कल्पते । स्वसत्कं तु साबाणजवनिकादि कियद्दिनानि देवगृहादौ विलोक्यमानत्वेन व्यापारणाय मुक्तमपि देवादिसत्कं न स्यात् अभिप्रायस्यैव प्रमाणीकरणात् । अन्यथा स्वभाजनस्थनैवेद्यढोकने भाजनानामपि देवसत्कीभवनप्रसङ्गः । गृहाट्टादि च देवज्ञानसत्कं भाटकेनापि श्राद्धेन न व्यापार्यं निःशूकताद्यापत्तेः । साधारणसम्बन्धि तु सङ्घानुमत्या यदि व्यापार्यते, तदापि लोकव्यवहाररीत्या भाटकमर्प्यते न तु न्यूनं, तच्चोक्तदिनमध्ये स्वमेवार्म्यम् । तत्र च यद् भित्त्यादि प्राक्तनं विनश्यत्समारच्यते, तत्र यावल्लगति तावद् भाटकमध्ये वालनीयमिति, तथा लोकव्यवहारात् । यत्तु स्वकार्यार्थमालयादि नव्यं कार्यते, तत्र यल्लगति तद् भाटकमध्ये न वाल्यं, साधारणद्रव्योपजीवनदोषापत्तेः । सीदन् साधर्मिकस्तु सङ्घोक्त्या भाटकार्पणं विनापि साधारणे गृहे
२१५