________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
A
चन्द्रोदय-झल्लरी-भेर्यादि-वाद्य-साबाण-सिरावक-जवनिका-कम्बल-कटक-पाट-पट्ट-पट्टिका-कुण्डिका-कुम्भउ-रसकज्जलजल-प्रदीपादिकं चैत्यशालाप्रणालाद्यागत-जलाद्यपि च स्वकार्ये किमपि न व्यापार्यम्, देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसाबाणादीनां मलिनीभवनत्रुटनपाटनादिसम्भवे त्वधिकदोषोऽपि । आह च
विधाय दीपं देवानां पुरस्तेन पुनर्नहि । गृहकार्याणि कार्याणि तिर्यपि भवेद्यतः ॥
इन्द्रपुरे देवसेनो व्यवहारी । तस्य धनसेन औष्ट्रिक: सेवकः । तस्य गृहान्नित्यमेका उष्ट्रिका देवसेनगृहे समेति । कुट्टयित्वा धनसेनेन गृहे नीतापि पुनर्देवसेनगृह एव यात्वा तिष्ठति । इभ्येन मूल्येन गृहीत्वा स्थापिता । उभयोरपि स्नेहः । एकदा ज्ञानी पृष्टः स्नेहकारणं प्राह । एषा पूर्वभवे तव माताऽभूत् । तया जिनस्याग्रे दीपं कृत्वा पश्चात्तेनैव दीपेन गृहकार्याणि कृतानि । धूपाङ्गारेण चुल्ली सन्धुक्षिता । तेन कर्मणा उष्ट्री जाता । यतः
जो जिणवराण हेउं धूवं दीवं च करिय नियकज्जं । मोहेण कुणइ मूढो तिरियत्तं सो लहइ बहुसो ॥
प्राग्भवभवोऽयं युवयोः स्नेहः इति देवदीपव्यापारणे ज्ञातम् । अतो देवदीपे लेखा न वाच्यन्ते । गृहकार्यं न क्रियते । नाणकं न परीक्ष्यते। देवदीपाद्दीपः स्वकार्ये न क्रियते । देवश्रीखण्डेन तिलकं न क्रियते स्वललाटादौ। देवजलेन करौ न प्रक्षाल्यौ । देवस्य शेषाऽपि पतिता स्वल्पैव च गृह्यते न शरीरादुत्तार्य । देवसत्कं च झल्लरीबेर्यादि गुरूणामपि सङ्घस्यापि चाग्रे न वाद्यम् । केचित्त्वाहुः पुष्टालम्बने यदि देवझल्लादि व्यापार्यते, तदा पूर्वं बहुनिष्क्रयो देवस्य मोच्यः । यतः
२१४
AAAAAAA