________________
प्रथमः
प्रकाशः
प्रदायाऽनृणीकृतोऽनशनेन स्वर्गतः क्रमान्मोक्षं च । इति देयार्पणे विलम्बकरणे दृष्टान्तः । तस्माद्देवज्ञानादेयं क्षणमपि न | 2
श्राद्धविधिस्थाप्यम् । अन्यस्यापि हि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः । यदा च यावता प्रकरणम् मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातम् । तच्च कथमुपभुज्यते ? । कथं वा तल्लाभादि गृह्यते पूर्वोक्तदेवादिद्रव्योपभोगदोषप्रसङ्गात् । तस्मात्सद्य एव तदर्पणीयम् यस्तु सद्योऽर्पयितुमशक्तस्तेनादावेव पक्षार्द्धपक्षाद्यवधिः स्फुटं कार्यः । अवधिमध्ये च स्वयमयँ मार्गणादि विनापि । अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उद्ग्राहणिकापि शीघ्रमभग्नतया तच्चिन्ताकारकैः स्वद्रव्यवद्देवादिद्रव्येऽपि कार्या, अन्यथा बहुविलम्बे दुर्भिक्षदेशभङ्गदौःस्थ्याद्यापातस्यापि सम्भवाद् बहूपक्रमेऽपि तदसिद्धेः । तथा च महादोषः, यथा-महेन्द्रपुरेऽर्हच्चैत्ये चन्दनभोगपुष्पाक्षत-फल-नैवेद्य-दीपतैल-कोश-पूजोपस्करतत्समारचन-चैत्यद्रव्योद्ग्राहणिका-तल्लेख्यकसुयत्न-तत्स्थापन-तदायव्ययादिचिन्तायां पृथक् पृथक् चिन्ताकर्तारः प्रत्येकं चत्वारश्चत्वारः श्रीसङ्घन नियोजिताः सम्यक् चिन्तां कुर्वन्ति । अन्यदा मुख्यश्चिन्ताकृदुद्ग्राहणिकाकरणादौ यत्तद्वचनश्रवणादिना दूनस्तच्चिन्तायां शिथिलीभूतः । मुख्यानुयायिनो व्यवहाराः इत्यन्येऽपि शिथिलीभूताः । तावता देशभङ्गादिना बहु देवद्रव्यं विनष्टम् । तत्कर्मणा सोऽसङ्ख्यभवान् भ्रान्तः । इति चिन्ताशैथिल्ये ज्ञातम्। तथा देवादिदेयं सम्यगेवायें नतु घृष्टकूटनाणकादिना, यथा कथञ्चित् देवद्रव्योपभोगदोषपत्तेः । तथा देव-ज्ञान-साधारणसम्बन्धि-गृहाट्ट-क्षेत्र-वाटिका-पाषाणेष्टका-काष्ठवंशक-बेल्लुक-मृत्सुधादिकं श्रीखण्डकेसरभोगपुष्पादिकं पिङ्गानिका-चङ्गेरी-धूपपात्र-कलश-वास-कुम्पिकादिकं श्रीकरी-चमर
२१३