________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
स्यात्तस्य श्रावकश्राविकाणामर्पणे युक्तिरेव न दृश्यते । शालादिकार्ये तु तद् व्यापार्यते श्राद्धैः । एवं ज्ञानसत्कं कागदपत्रादि साध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्यम् । स्वपुस्तिकायामपि न स्थाप्यं समधिकनिष्क्रयं विना । साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात् । स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थं गुरुभिर्विह्रियते, तेन गुर्वर्पिततद्ग्रहणव्यवहारो दृश्यते । गुर्वादेशं विना च साधुसाध्वीनां लेखकपााल्लेखनं वस्त्रसूत्रादिविहरणमपि न कल्पते, इत्याद्यपि चिन्त्यम् । तदेवं स्वल्पोपजीवनमात्रेऽपि मात्राधिकं दारुणविपाकं विज्ञाय विवेकिभिर्देवज्ञानसाधारणद्रव्याणां स्वल्पोऽप्युपभोगः सर्वथापि परिहार्यः । अत एव मालोद्घट्टन-परिधापनिकामोचन-न्युञ्छनकरणादावपि तदैव द्रव्यार्पणं युक्तम् । तथासम्भवा-भावेऽपि यथा यथा शीघ्रमर्पयति, तथा तथाऽधिको गुणो, विलम्बकरणे हि जातु दुर्दैवात् सर्वस्वहानिमृत्य्वादिसम्भवे दुर्गत्यादि दुर्वारं सुश्राद्धस्यापि । श्रूयते हि महापुरे पुरे महेभ्यः श्रेष्ठी ऋषभदत्तः परमार्हतः । पर्वणि चैत्ये गतः । पार्श्वे द्रव्याभावादुद्धारके परिधापनिकार्पणं प्रतिपेदे । सद्यश्च तेनान्यान्यकार्यव्यग्रेण सा नार्पिता । अन्यदा दुर्दैवात्तद् गृहे धाटी प्रविष्टा । सर्वस्वं लुण्टितम् । श्रेष्ठी शस्त्रहस्तो भीतैलुंण्टाकैः शस्त्रघातैर्हतो मृत्वा तत्रैव पुरे निर्दयदरिद्रकृपणमहिषवाहकगृहे महिषो जातो निरन्तरं नीरादिभारं प्रतिगृहं वहति । तच्च पुरमुच्चस्तरं नदीनीरं च नीचैस्तरं तेन उच्चस्तरभूचटनाहोरात्रभारवहन| बहुक्षुन्निरन्तरनिर्दयनाडीघातादिभिर्महाव्यथाश्चिरं सेहे । सोऽन्येधुर्नव्यनिष्पद्यमानचैत्यजगतीकृते जलं वहंश्चैत्यार्चादि दृष्ट्वा | जातजातिस्मृतिश्चैत्यं कथमप्यमुञ्चन् ज्ञानिवचसा प्राग्भवपुत्रैः द्रव्यं दत्त्वा महिषवाहकान् मोचितः । प्राग्भवोक्तं देवदेयं सहस्रगुणं
२१२