________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
प्रभास्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं स्वर्गस्थमपि पातयेत् ॥
प्रभास्वं साधारणद्रव्यमित्यर्थः । नरकोद्धृतौ च तौ जातौ सरीसृपौ । ततो द्वितीयपृथिव्यां नारकौ । ततो गृध्रौ । ततस्तृतीयपृथिव्यां । एवं एकद्व्यादिभवान्तरितौ सप्तसु पृथ्वीषु एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यक्षु च द्वादशसहस्रभवेषु भूयस्तर- | दुःखमनुभूय बहुक्षीणतदुष्कर्माणौ युवां जातौ । द्वयोरपि द्वादशद्रम्मोपभोगाद् द्वादशसहस्रभवेषु तादृग् दुःखमस्मिन् भवेऽपि द्वादशकोटिनिर्गमनं द्वादश वारान् बहूपक्रमेऽपि धनलाभधनहानिपरगृहदास्यदुखादि जातम् । कर्मसारस्य च तद्ज्ञानद्रव्योपजीवनादतिनिष्प्रज्ञत्वनिर्बुद्धित्वाद्यधिकम् । इति श्रुत्वा द्वाभ्यां श्राद्धधर्मं प्रपद्य प्रायश्चित्तपदे द्वादश द्रम्माः सहस्रगुणा ज्ञानसाधारणयोरुत्पन्न एवार्पणीया इति नियमो जगृहे । ततो द्वयोरपि प्राक्कर्मक्षयाद्धनोत्पत्तिभवनेन सहस्रगुणतदर्पणेन च क्रमाद् द्वादशकनककोट्योऽभूवन् । ततो महेभ्यसुश्रावकतया सम्यग् ज्ञानसाधारणद्रव्यरक्षातदुत्सर्पणादिना श्राद्धधर्ममाराध्य प्रव्रज्य च सिद्धौ । इति ज्ञानसाधारणद्रव्योपरि कर्मसारपुण्यसारकथानकम् ॥
ज्ञानद्रव्यं हि देवद्रव्यवन्न कल्पते एव श्राद्धानाम् । साधारणमपि द्रव्यं सङ्घदत्तमेव कल्पते व्यापारयितुं न त्वन्यथा । सङ्केनापि सप्तक्षेत्रीकार्य एव व्यापार्यं न मार्गणादिभ्यो देयम् । साम्प्रतिकव्यवहारेण तु यद् गुरुन्युञ्छनादिना साधारणं कृतं
१. जातं इति को० ह० प्र० पाठः ।
२११