________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
द्यौषधीग्रहणादिना चैकादशवारान्महोपक्रमकरणेऽपि कुबुद्ध्यान्यान्यवैपरीत्यविधानादाद्येन क्वापि धनं नाजितं, किन्तु तत्तद्दुःखान्येव सोढानि । अपरेण पुनर्जितमपि प्रमादादिनैकादशवारान्निर्गमितम् । ततोऽत्युद्विग्नौ तौ पोतमारुह्य रत्नद्वीपं गत्वा सप्रत्ययरत्नद्वीपदेव्यग्रे मृत्युमप्यङ्गीकृत्य निविष्टौ । अष्टमे उपवासे नास्ति युवयोर्भाग्यम् इत्युक्तं देव्या । ततः कर्मसार उत्थितः । पुण्यसारस्त्वेकविंशत्योपवासैर्दत्तं तया चिन्तारत्नम् । कर्मसार: पश्चात्तापं कुर्वन् पुण्यसारेणोक्तः-मा विषीद एतच्चिन्तारत्ने तवापि चिन्तितं सेत्स्यति इति । अथ द्वावपि प्रीतौ निवर्तमानौ पोतमारूढौ । रात्रौ च राकाशशाङ्कोदये वृद्धेनोक्तं, भ्रातः ! स्फुटीकुरु चिन्तारत्नं विलोक्यते तस्य चन्द्रस्य वाधिकं तेज इति ? । लघुनापि पोततटस्थेन दुर्दैवप्रेरितेन रत्नं हस्ते नीत्वा, क्षणं रत्ने क्षणं चन्द्रे च दृष्टिं निदधता पातितं रत्नं रत्नाकरान्तर्मनोरथैः सह । ततो द्वावपि समदु:खौ स्वपुरं प्राप्तौ । ज्ञानिपार्श्वे स्वप्राग्भवमप्राष्टाम् । ज्ञानी प्राह-चन्द्रपुरे जिनदत्तजिनदासश्रेष्ठिनौ, परमार्हतौ । अन्यदा तत्र श्रावकैर्मीलितं प्रभूतं ज्ञानद्रव्यं साधारणद्रव्यं च तयोः क्रमादर्पितं रक्षायै । तौ सम्यग् रक्षां कुरुतः । अन्येधुराद्येन स्वपुस्तिकायां किञ्चिद् गाढविलोक्यमानं लेखकपाल्लेिखितं पार्श्वे चापरद्रव्याभावादिदमपि ज्ञानस्थानमेवेति, विचिन्त्य ज्ञानद्रव्याद् द्वादशद्रम्मा लेखकस्यार्पिताः । द्वितीयेन तु, साधारणद्रव्यं सप्तक्षेत्रयोग्यत्वेन श्राद्धानामपि योग्यम्, अहमपि श्रावक इति विमृश्य साधारणद्रव्याद् द्वादश द्रम्मा स्वगृहगाढप्रयोजने पार्श्वेऽन्यद्रव्याभावाद् व्ययिताः । ततो मृत्वा तौ तद्दुष्कर्मणा प्रथमं नरकं गतौ । यदुक्तं वेदान्तेऽपि
प्रभास्वे मा मतिं कुर्यात्प्राणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति प्रभादग्धो न रोहति ॥
२१०