________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
वार्द्धके धनसौख्यसन्तत्यादिवृद्धिर्भवित्रीति । क्रमादुभावपि विज्ञोपाध्यायस्य पाठनायार्पितौ । पुण्यसार: सुखेन सर्वविद्या अधीतवान् । कर्मसारस्य तु बहूपक्रमेणाप्यक्षरमात्रमपि नायाति, किं बहुना वाचनलिखनाद्यपि कर्तुं न शक्नोति, सर्वथा पशुरेवेति पाठकेनापि पाठनं मुक्तम् । द्वावपि यौवनस्थौ पितृभ्यां समृद्धतया सुलभे महेभ्यकन्ये परिणायिते सोत्सवम् । मा मिथः कलहायिषातामि इति द्वावपि द्वादश द्वादश कनककोटीर्दत्त्वा पृथक् कृतौ । पितरौ तु प्रव्रज्य स्वर्गतौ । अथ कर्मसार: स्वजनादिभिर्वार्यमाणोऽपि स्वकुबुद्धया तत्तद्वाणिज्यं कुरुते, यत्र यत्र अर्थहानिरेव । एवं स्वल्पैरेव दिनैर्जनकार्षिता द्वादश कोटयो निर्गमिताः । पुण्यसारस्य तु द्वादश कोटयः खात्रं दत्वा तस्करैर्गृहीताः । उभावपि जातौ दरिद्रौ त्यक्तौ स्वजनादिभिः । भार्ये अपि क्षुधादिते गते पितृगृहे। यतः
अलिअंपि जणो धणवंतयस्स सयणत्तणं पयासेइ । आसण्णबंधवेणवि, लज्जिज्जइ झीणविहवेण ॥ गुणवंपि निग्गुणच्चिअ गणिज्जए परिअणेण मयविहवो । दक्खत्ताइगुणेहिं अलिएहिं विगिज्जए सधणो ॥
ततो निर्बुद्धिनिर्भाग्याविति लोकैर्दत्तापमानौ लज्जमानौ तौ गतौ देशान्तरम् । स्थितौ च पृथक् पृथक् क्वापि महेभ्यगृहे । अन्योपायाभावाद् भृत्यवृत्त्या यस्य च गृहे कर्मसार: स्थितः, सोऽलीकव्यवहारी कृपणश्चेति । प्रोक्तवेतनमपि न दत्ते । अमुकदिने दास्यामीति मुहुर्मुहुस्तं वञ्चयति । इति बहुभिर्दिनैराद्येन किमपि धनं नार्जितम् । द्वितीयेन तु कियदर्जितं परं तत् प्रयत्नगोपितमपि | धूर्तेनापहृतम् । एवमन्यान्यस्थानेषु भृत्यवृत्त्या धातुवाद-खनिवाद-सिद्धरसायन-रोहणाद्रिगमन-मन्त्रसाधन-रुदन्त्या
२०९