________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
देवद्रव्यप्रदानतद्रव्यरक्षावृद्ध्यादिना तद्दुष्कर्मप्रतीकारः, सर्वाङ्गीणभोगर्द्धिसुखलाभश्च स्यात् । ततस्तेन सहस्रगुणदेवद्रव्यप्रदानावधिवस्त्रहारादिनिर्वाहमात्राधिकं स्वल्पमपि द्रव्यं न सङ्ग्राह्यमिति मुनिसमक्षं नियमो जगृहे, विशुद्ध श्राद्धधर्मश्च । ततो यद्यद् व्यवहरति तत्र तत्र बहु द्रव्यमर्जयति ददाति च देवस्य । एवं स्वल्पैरेव दिवसैः प्रागुपजीवितसहस्रकाकणीस्थाने काकणीलक्षदशकं प्रादायि । ततो देवस्यानृणीभूतः क्रमार्जितप्रभूततरद्रव्यः स्वपुरे प्राप्तो महेभ्यमुख्यतया राज्ञापि मान्यः । स्वयं कारितेष्वन्येषु च सर्वजैनप्रसादेषु सर्वशक्त्या सर्वाङ्गीणचिन्ताकरणपूर्वकं प्रत्यहं महापूजाप्रभावनादिविधापनसम्यग्देवद्रव्यरक्षणयथायुक्तिवृद्धिप्रापणाद्युद्भूतपुण्येन चिरसमयं सञ्चितेन जिननामकर्म बद्धवान् । अवसरे च दीक्षामाददे । तत्रापि गीतार्थीभूतः प्रभूतयथार्हधर्मदेशनादिना देवभक्त्यतिशयेन जिनभक्तिरूपं प्रथम स्थानकमाराध्याहन्नामकर्म निकाचितवान् । ततः सर्वार्थसिद्धे देवभवमनुभूय महाविदेहेऽर्हद्विभूति भुक्त्वा सिद्धः । इति देवद्रव्ये सागरश्रेष्ठिकथा ।
अथ ज्ञानसाधारणद्रव्ययोदृष्टान्तः ।
भोगपुरे पुरे चतुर्विंशतिकनककोटिस्वामी धनावहश्रेष्ठी । पत्नी धनवती । तयोर्यमलजातौ सुतौ कर्मसारपुण्यसारौ सौभाग्यसारौ । पित्राऽन्यदा कीदृशावेतौ भाविनो? इति नैमित्तिकः पृष्टः प्राह-कर्मसारो जडप्रकृतिरतिनिष्प्रज्ञो विपरीतबुद्धितया बहूपक्रमेऽपि प्राक्तनसर्वद्रव्यनिर्गमननव्यद्रव्योपार्जनाभावादिना बहुकालं भृशं दारिदास्यादिदुःखवान् भावी । पुण्यसारोऽपि | प्राच्यसर्वद्रव्यस्य नव्योपार्जितद्रव्यस्यापि पुनः पुनर्हान्या तथैव दुःखी भावी, परं वाणिज्यादिकलाकुशलो भविता । द्वयोश्च
२०८