________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
एव चान्यपल्लीपतिना विनाशिता सा पल्ली । ततस्तैरपि निर्भाग्य इति निष्काशितः । यतः
खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके, वाञ्छन् स्थानमनातपं विधिवशाद् बिल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः, प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः ॥
एवमेकोनसहस्रान्यान्यस्थानेषु तस्कर-जलानल-स्वचक्र-परचक्रमरकाद्यनेकोपद्रवसम्भवान्निष्काशनादिना महादुःखं वहन्महाटव्यां सप्रत्ययसेलकयक्षप्रासादं प्राप्त एकाग्रतया तमाराधयामास । स्वदुःखनिवेदनपूर्वं एकविंशत्योपवासैश्च तुष्टो यक्षः प्राह,-भद्र ! सन्ध्यायां मम पुरः सुवर्णचन्द्रकसहस्राङ्कितो महान् मयूरो नृत्यं करिष्यति, प्रतिदिनं पतितानि तत्कनकपिच्छानि त्वया ग्राह्याणि । हृष्टेन तेनापि कियन्त्यपि गलितानि सायं गृहीतानि । एवं प्रत्यहं ग्रहणान्नवशती पिच्छानां प्राप्ता, शतमेकं शेषं तिष्ठति । अथ दुष्कर्मप्रेरितेन तेन चिन्तितं-एतद्ग्रहणायाऽद्यापि कियच्चिरमत्रारण्ये स्थातव्यं, तद्वरमेकमुष्टयैव सर्वाण्यपि गृह्णामि इति तद्दिने नृत्यन्मयूरस्य तान्येकमुष्ट्यैव गृहीतुं यावत्प्रवृत्तः तावत्केकी काकरूपः सन्नुड्डीय गतः । पूर्वगृहीतपिच्छान्यपि नष्टानि । यतः
दैवमुल्लध्य यत्कार्यं क्रियते फलवन्न तत् । सरोऽम्भश्चातकेनाऽऽत्तं गलरन्ध्रण गच्छति ॥ । ततो धिग् मया मुधैवौत्सुक्यं कृतमिति विषण्ण इतस्ततो भ्रमन् ज्ञानिनं मुनिमेकं दृष्ट्वा नत्वा च स्वप्राक्कर्मस्वरूपं | पप्रच्छ । तेनाप्युक्तं यथानुभूतं प्राग्भवस्वरूपं व्यक्त्या । ततस्तद्देवद्रव्योजीवनप्रायश्चित्तं ययाचे । मुनिनाप्युक्तं समधिकताव
AAAAAAAAAAA