________________
प्रथम: प्रकाशः
महिष-वृषभ-करभ-वेसर-तुरग-गजादिषु समुत्पत्त्या लक्षसङ्ख्यभवान् भ्रान्तः । प्रायः सर्वभवेषु शस्त्रघातादिना महाव्यथाः ।।
श्राद्धविधिसहमान एव मृतः । ततः क्षीणबहुदुष्कर्मा वसन्तपुरे कोटीश्वरवसुदत्तवसुमत्योः पुत्रो जातः । गर्भस्थे एव प्रणष्टं सर्वं द्रव्यं प्रकरणम् जन्मदिने जनकोऽपि विपन्नः । पञ्चमे वर्षे मातापि मृता । लौकैर्निष्पुण्यक इति दत्तनामा द्रमक-रङ्कवृत्या वृद्धि प्राप । अन्यदा दृष्टः स्नेहलेन मातुलेन नीतश्च स्वगृहे, रात्रौ च मुषितं मातुलगृहं चौरैः । एवं यस्य वेश्मन्येकमपि दिनं वसति, तत्र चौरधाट्याग्निगृहधनिकविपत्त्याधुपद्रवः स्यात् । ततः कपोतपोतोऽयं ज्वलन्ती गड्डरिका वा मूर्तिमानुत्पातो वा इत्यादिलोकनिन्दयोद्विग्नमना गतो देशान्तरम् । प्राप्तश्च ताम्रलिप्ती पुरीम् । स्थितश्च विनयंधरमहेभ्यगृहे भृत्यवृत्त्या । ज्वलितं च तद्दिने एव तद्गृहं । निष्कासितश्चालर्कशुन इव तेन स्वगृहात् । ततः किंकृत्यमूढ प्राक्कृतं स्वकर्म निन्दति स्म । यतः
कम्मं कुणेति सवसा, तस्सुदयम्मि अ परवसा हुंति । रुक्खं दुरुहइ सवसो, निवडेइ परव्वसो तत्तो ॥
ततः स्थानान्तरितानि भाग्यानि इति विमृश्य गतः समुद्रतीरे । तद्दिन एव चटितश्च प्रवहणम् । भृत्यभावेन धनावहसाज्यात्रिकेण साकं प्राप्तः क्षेमात्परद्धीपम् । दध्यौ चैवं, अहो उद्घाटितं मम भाग्यं यन्मय्यारूढेऽपि न भग्नं यानपात्रं, यद्वा विस्मृतमिदं दुर्दैवस्य कृत्यं, सम्प्रति मा वलनावसरे स्मृतिविषयं यासीत् । तच्चिन्तानुसारिणैव दैवेन वलमानस्य तस्य प्रचण्डदण्डप्रहतभाण्डमिव शतखण्डीकृतः पोतः । दैवान्नि:पुण्यकः फलके लग्नः । कथञ्चित् अब्धितीरग्रामं प्राप्तः । तद्ग्रामठक्कुरमवलगति स्म । अन्यदा धाट्या निष्पातितष्ठक्कुरः । निष्पुण्यकश्च ठक्कुरसुतबुद्ध्या बद्धद्ध्वानीतः पल्ल्याम् । तद्दिवस
२०६