________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
पाणिग्रहणमात्रमजनि । महेभ्योदारश्वशुरगृहगमनेऽपि मान्यत्वेऽपि च प्राग्वन्नवनवभयशोकमान्द्यादिना मनोऽभीष्टभोगसखोत्सवादियोगस्तस्याः प्रायो नासीत् । ततस्तयाऽत्युद्विग्नया संविग्नया च क्वचित् केवली पृष्टः प्रोचे, प्राग्भवे त्वया स्तोकनिष्क्रयार्पणप्रौढाडम्बरदर्शनादिना दुष्कर्म अर्जितं तत्फलमिदम् । ततः सा तत्पापमालोच्य प्रव्रज्य क्रमात् सिद्धा । तस्मादुद्यापनढौकनादौ निष्क्रयग्राह्यवर्तुलिकानालिकेरमोदकादेर्यावन्मूल्यं स्यात्तावत्तन्निष्पादनानयनाद्युपक्रमपदे तदनुसारेण कियदधिकं चार्पणीयम् । एवं निष्क्रयशुद्धिः । केनचित् सविस्तरोद्यापनादौ स्वनाम्ना मण्डितेऽधिकशक्त्याद्यभावात्तदुद्यापनाचारसत्यापनार्थं कश्चिद्यावन्मुञ्चति, तावतापि न दोषः । तथा स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम् । नापि चैत्ये स्वयमारोप्यं, किन्तु सम्यक् स्वरूपमुक्त्वार्चकादेः पार्वात् । तद्योगाभावे तु सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमप्यारोपयेत्, अन्यथा मुधाजनप्रशंसादिदोषः । गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नाऱ्या, आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः । मुख्यवृत्त्या तु मासदेयं पृथगेव कार्यम् । गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे | मोच्यम्, अन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यान्नतु स्वद्रव्येण । तथा चानादरावज्ञादिदोषः । न चैवं युक्तं स्वदेहगृहकुटुम्बाद्यर्थं भूयसोऽपि व्ययस्य गृहस्थेन करणात् । देवगृहे देवपूजापि स्वद्रव्येणैव यथाशक्ति कार्या, न तु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण । देवसत्कपुष्पादिना वा, प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तुवत् सम्यग् रक्षणीयं, सम्यग् मूल्यादियुक्त्वा च विक्रेयं, न तु यथा तथा मोच्यं, देवद्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन
२१७