________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAAAAAAAAAAA
स्वपक्षपरपक्षभेदाद्वा द्विविधे, स्वपक्षः श्रावकादिः, परपक्षो मिथ्यादृष्ट्यादिः, एवमनेकधा द्वैविध्यं । अत्राऽपिशब्दस्याध्याहारादास्तां श्रावकः, सर्वसावधविरतः साधुरप्यौदासीन्यं कुर्वाणोऽनन्तसंसारिको भणितस्तीर्थकृदादिभिः । अथ त्रिधा प्रत्याख्यातसावद्यस्य यतेश्चैत्यद्रव्यरक्षायां को नामधिकारः ? इति चेदुच्यते, यदि राजामात्याद्यभ्यर्थनपुरस्सरं गृहहट्टग्रामादिकादानादिविधिना नवमुत्पादयति, तदा भवति भवद्विवक्षितार्थसिद्धिः । यदा तु केनचिद्यथाभद्रकादिना धर्माद्यर्थं प्राग्वितीर्णमन्यद्वा जिनद्रव्यं विलुप्यमानं रक्षति तदा नाभ्युपेताऽर्थहानिरपि तु विशेषतः पुष्टिरेव सम्यग् जिनाज्ञाराधनात् । यथाहिजिनभवनं नवमकारयतोऽपि पूर्वकृतं तु तत्प्रतिपन्थिनिग्रहेणापि रक्षतो न प्रायश्चित्तं नापि प्रतिज्ञाभङ्ग इति । आगमोऽप्येवमेवं व्यवस्थितो । यदाह
चोएइ चेइयाणं, खित्तहिरन्ने अगामगोवाइ । लग्गं तस्स उ जइणो, तिगरणसोही कहं नु भवे ॥ भन्नइ इत्थ विभासा, जो एयाई सयं विमग्गिज्जा । तस्स न होई सोही, अह कोई हरिज्ज एयाई ॥ तत्थ करंतु उवेहं, जा सा भणिआ उ तिगरणविसोही । सा य न होइ अभत्ती अ तस्स तम्हा निवारिज्जा ॥ सव्वत्थामेण तर्हि, संघेण य होइ लग्गिअव्वं तु । सचरित्तऽचरित्तीण य सव्वेसि होइ कज्जं तु ॥ इति । तथा-भक्खेइ जो उविक्खेइ जिणदव्वं तु सावओ । पन्नाहीणो भवे जो अ लिप्पए पावकम्मुणा ॥ पन्नाहीणत्ति-प्रज्ञाहीनत्वमङ्गोद्धारदानादिना देवद्रव्यविनाशः, यद्वा प्रज्ञाहीनः स्वल्पेन बहुना वाऽर्थेन कार्यसिद्धिमजानानो |
२०३