________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
मन्दमतितया यथाकथञ्चिद् द्रव्यव्ययकारी कूटलेख्यश्च यत्तदोनित्यसम्बन्धात् स लिप्यते ।
आयाणं जो भंजइ, पडिवन्नधणं न देइ देवस्स । नस्संतं समुविक्खइ, सो वि हु परिभमइ संसारे ॥ जिणपवयणवुड्डिकर, पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदव्वं, अणंतसंसारिओ होइ ॥
'जिणपवयणत्ति'-सति हि देवद्रव्ये प्रत्यहं चैत्यसमारचनमहापूजासत्कारसम्भवः, तत्र च प्रायो यतिजनसम्पातः, तद् व्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः, एवं ज्ञानादिगुणानां प्रभावना चेत्यर्थः ।
जिणपयवणवुड्विकरं, पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ ॥ 'परित्तति'-परिमितभवस्थितिः । जिणपवयणवुड्ढिकरं, पभावगं नाणदसणगुणाणं । वुटुंतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ॥
'वुटुंतोत्ति' वृद्धिरत्र सम्यग्रक्षणाऽपूर्वापूर्वार्थप्रक्षेपादिना अवसेया । 'तित्थयरत्ति' तीर्थकरत्वलाभो देवद्रव्यवृद्धिकर्तुरर्हत् प्रवचनभक्त्यतिशयात्सुप्रसिद्ध इति तवृत्तौ । पञ्चदशकर्मादान-कुव्यापारवर्ज, सद्व्यवहारादिविधिनैव च तवृद्धिः कार्या ।। यत:-जिणवरआणारहियं, वद्धारंता वि केवि जिणदव्वं । बुटुंति भवसमुद्दे, मूढा मोहेण अन्नाणी ॥
केचित्तु श्राद्धव्यतिरिक्तेभ्यः समधिकग्रहणकं गृहीत्वा कलान्तरेणापि तवृद्धिरुचितैवेत्याहुः । सम्यक्त्ववृत्त्यादौ सङ्काश
२०४