________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
स्थापनादिकार्य, अन्यथा धर्मावज्ञादि-दोषापत्तेः । एतासु चोत्सूत्रभाषणार्हद्गुर्वाद्यवज्ञादिर्महत्याशातनाऽनन्तसंसारहेतुश्च ।। सावधाचार्य-मरीचि-जमालि-कूलवालकादेरिव । यतः
उस्सुत्तभासगाणं, बोहीनासो अणंतसंसारो । पाणच्चएवि धीरा, उस्सुत्तं ता न भासंति ॥ तित्थयरपवयणसुअं, आयरियं गणहरं महड्डिअं । आसायंतो बहुसो, अणंतसंसारिओ होइ ॥ एवं देवज्ञानसाधारणद्रव्याणां गुरुद्रव्यस्य च वस्त्रपात्रादेविनाशतदुपेक्षाद्यपि महत्याशातना । यदूचेचेइअदव्वविणासे, इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥ विनाशोऽत्र भक्षणोपेक्षणादिलक्षणः । श्रावकदिनकृत्य-दर्शनशुद्धयादावपिचेइअदव्वं साहारणं च जो दुहइ मोहिअमईओ । धम्मं च सो न याणइ, अहवा बद्धाउओ नरए ।
चैत्यद्रव्यं प्रसिद्धं, साधारणं चैत्यपुस्तकापद्गतश्राद्धादिसमुद्धरणयोग्यं-ऋद्धिमच्छ्रावकमीलितं यो द्रुह्यति विनाशयति दोग्धि वा व्याजव्यवहारादिना तदुपयोगमुपभुङ्क्ते इत्यर्थः ।
चेइअदव्वविणासे, तद्दव्वविणासणे दुविहभेए । साहु उविक्खमाणो, अणंतसंसारिओ भणिओ ॥
'तद्दव्वत्ति' तस्य चैत्यस्य द्रव्यं दारूपलेष्टकादि, तस्य विनाशने । योग्यातीतभावविनाश्यभेदाद् द्विविधे, तत्र योग्यं नव्यमानीतं, अतीतभावं लग्नोत्पाटितम् । मूलोत्तरभेदाद् वा द्विविधे, तत्र मूलं स्तम्भकुम्भिकादि, उत्तरं तु छादनादि ।
२०२